________________
वर्णानुपूविचिन्ता
३८५
तेषाम्वर्णानां रूपस्य स्तिमितवायवीयावयवसंयोगरूपाणामावरणानां प्रयत्नप्रेरितेन वायुना विगमो यदि व्यक्तिस्ते मी मां स क स्येष्टा तदा पूर्वावस्थात्यागे नातिशयो न व्यक्तिरनित्यत्वासक्तेः। उपलम्भावरणविगमो वा शब्दालम्बनं ज्ञानम्वा व्यक्तिः स्यादित्यत्राह कार्य व्यक्तिरशक्या यस्मादावरणविगमेऽभावे नीरूपे करणग्रामस्य किं नु तत् सामर्थ्य भवेत् । क्वचित् कर्तव्ये सामर्थ्य स्यात् । न तु कर्तव्याभावे । यदि समस्तकात्वर्य (? यत्व) सम्भवेपि शब्दानां न कार्यता तदा (1)
शब्दाविशेषादन्येषामपि व्यक्तिः प्रसज्यते ।।२६५।।
तथाभ्युपगमे सर्वकारकाणां निरर्थता। शब्दादविशेषा दन्यव्यापारान्तरादुपलभ्यमानत्वनियमेनान्येषां घटादीनामपि व्यक्तिः प्रसज्येत कार्यता न स्यात्। ३ तथाभ्युपगमे च सर्वेषां कारकाणां व्यञ्जकाभिमतानां निरर्थकता। उत्पादकं हि कारणमिष्यते न तु व्यञ्जकं शब्दानामिव। e. साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥२६६॥
अनुदाहरणं सव्वभावानां क्षणभङ्गतः। • यच्च नित्यत्वसिद्धये वर्णानां प्रत्यभिज्ञानं° सत्प्रयोग आदिशब्दादुच्चा. यंमाणत्वादि साधनं मतं सन्नेव हि प्रयुज्यते। यथा वास्यादि च्छिदायां (1) ततः प्रयोगात् प्रयोगेपि विद्यमानत्वाद् वर्णा नित्या एव। तदनुदाहरणं दृष्टान्तविकलं सर्वेषाम्भावानां क्षणभङ्गतः।
___ दूष्यः कुहेतुरन्योपि; अनयैव दिशा परैरुच्यमानः कुहेतुर'न्यो 'पि दूष्यः ।
१ नित्यस्यानाधेयातिशयत्वान्नावरणमित्युक्तेश्च । २ न किञ्चिदपि कार्य स्यात्। सर्वस्य व्यङग्यत्वमिष्टञ्चेत् । ४ व्यक्तेः पक्षत्रयानतिक्रमात् तस्यात्रासंभवाज्ञानस्य सिद्धत्वात्।
५ व्यञ्जकविकल्पत्रये द्वयं निरस्तं। न ज्ञानकरणात् सत्कार्यका(?वा) दे वस्तुवत् । असत्कार्ये तु सर्वस्य कार्यतासक्तिनिवत् स्यात्। किञ्च।
• अष्टकृत्वो गोशब्द उच्चारितो नाष्टौ गोशब्दाः। यत्प्रयुज्यते तत्प्राक् सद् यथा वास्यादि। यत्परार्थ प्रत्यायत्तमुच्चार्यते। उच्चरितप्रध्वंसित्वे परप्रत्यायनं न स्यात्। विनाशस्याकारणत्वादिना। ........ साधनार्थः
४६