________________
३८४
प्र० वा. वृत्तौ (३ परिच्छेवः) ___ इति नित्यव्यापिनामपि शब्दानां व्यक्तेरभिव्यक्तेः। प्रतिनियतदेशकालायाः नमो वाक्यं न युक्तः। नित्यस्य व्यक्तिनिराकृतेर्ज्ञानोत्पादनहेतूनामित्यादिना। तस्मात् करणानां व्यापरावेव तेषाम्वर्णानां सिद्धेः कार्यतैषां युक्ता न व्यङग्यता। ___b. किञ्च (1)
स्वज्ञानेनान्यधीहेतुः सिद्धर्थे व्यञ्जको मतः ॥२६२॥ ___ यथा दीपोन्यथा वापि को विशेषोस्य कारकात्। ' सिद्धे विद्यमानेऽर्थे । स्वज्ञानेन कारणेनान्यस्य ज्ञानहेतुळञ्जको मतः। प्रदीपो घटस्य यथा। अन्यथा वापीति यदि व्यङग्यः प्राक् सिद्धो न भवेत् तदास्य 'व्यअकस्य कारकाद्धेतोः को विशेषो न कश्चित्। अपूर्वप्रतिपत्तिहेतुत्वाविशेषात्। c. तथा (1)
करणानां समग्राणां व्यापारादुपलब्धितः ॥२६॥
नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् । करणानों समग्राणां व्यापारात् नियमेनोपलब्धितश्च कार्यत्वमेव वर्णानां व्यञ्जके दीपादौ तस्य व्यङग्योपलब्धिनियमस्यासम्भवात्। न हि दीप इत्येव घटप्रतीतिः । करणसामग्र्यन्तु कार्यमवश्यम्भावयतीति करणसामग्र्ये नियतोपलम्भस्य कार्यतैव। d. तद्पावरणनां च व्यक्तिस्ते विगमो यदि ॥२६४॥
अभावे करणप्रामसामथ्र्य किं नु तद्भवेत् ।
'यदा कार्यस्याक्रिया व्यक्तिः।
व्यञ्जककृतेन साक्षाज्जननशक्त्युपधानेन ज्ञानजननासमर्थानां कार्यविशेष एव व्यक्तिः ।
स्वकारणादुत्पन्ने व्यङग्ये। दीपः स्वज्ञानद्वारा घटं बोषयति। "शब्दो वा घटादिवत् कार्यवत् कार्य एव? यः परार्थ प्रयुज्यते स प्रयोगात् प्राग् विद्यमानो यथा वाश्या(?वास्या)वि च्छिदायां। प्रयुज्यते च शब्दः परप्रत्यायनाय । प्रत्यभिज्ञयापि सिद्धः॥ हे क्षणिकेपि कर्मणि प्रयोगो वीपादौ च प्रत्यभिज्ञत्यनेकान्ता एते।
"घटशून्ये देशेऽनुपलब्धः ।