________________
·
ईश्वरदूषणम्
चानैकान्तिकदूषणं न जात्युत्तरं ।
ननु सन्निवेशादिशब्दवाच्योऽर्थः कुम्भे बुद्धिमद्व्याप्तः प्रतीतः स च तन्वादिष्वपि दृश्यते ततो विशेषे विकल्पो न युक्त इत्याह (1) जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् ।
न युक्तं साधनं गोत्वाद् वागादीनां विषाणिवत् ॥१७॥ तंत्रा लोटिन जात्यन्तरे' जातिविशेषे घटसन्निवेशादौ प्रसिद्धस्य साध्यस्य बुद्धिमत्पूर्व्वकत्वस्य तं विशेषं परित्यज्य शब्दसामान्यदर्शनाद् सन्निवेशादिमात्रेण न युक्तं साधनं वागादीनां गोत्वात् गोशब्दवाच्यत्वाद्विषाणिवत् विषाणित्वस्येव न युक्तं साधनं विशिष्टजातेरेव विषाणव्याप्त्युपलब्धेः । (१७)
किञ्च (1)
विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ।
तद्भावाद्; अर्थसिद्धौ तु सर्व सर्वस्य सिध्यति ॥ १८॥
१५
विवक्षापरतन्त्रत्वान्न श ैब्दाः सन्ति कुत्र वा सर्व्वत्रैव सन्ति तस्य शब्दस्य भावात् । अर्थसिद्धौ सत्यां सर्व्वं यथासमीहितं साध्यं सर्व्वस्य पुंसः सिध्यति उक्तमीश्वरसाधनस्य दूषणं ।। (१८)
अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह ।
एतेन का पिला दीनामचैतन्यादि चिन्तितम् । अनित्यादेश्च चैतन्य ं मरणात् त्वगपोहतः ॥१९॥
एतेन शब्दसामान्यमात्रस्यार्थशून्यस्याहेतुत्वकथनेन यत्कापिलादेर्बुद्धिसुखादीनामनित्यत्वोत्पत्तिमत्त्वादिहेतुतोऽचेतनत्वमिष्टं तथा दिगम्बराणां चैतन्यं तरूणां सर्व्वस्याः त्वचोऽपोहतोऽपगतेर्मरणादभिमतं तच्चिन्तितं वेदितव्यं ( 1 ) यथा ह्यप्रच्युतप्राच्यरूपस्य तिरोधा' नमनित्यत्वं सांख्य स्येष्टं बौद्ध स्य तु निरन्वयविनाशित्वं । तस्य यथाक्रममुपादाने प्रतिवाद्यसिद्धता वाद्यसिद्धता च ।
'कुम्भकारादिनैव कृतत्वसम्भावनया ।
२ यद्यपि न प्रवत्तितः शब्दः । तथापि यवैव प्रवर्त्यते तवैव भवतीति । रूपादिवत् ।
" आसर्गप्रलयान्नित्यैका बुद्धिर्न वेदना, प्रकृतिर्भोग्या भोक्ता पुरुषः सांख्यस्य (1) सांख्यः स्वस्वभावाच्युतस्य तिरोधानमनित्यतामाहातिरोधानं बौद्धस्यासिद्धं । निरन्वयनाशः सांख्यस्य । आत्मनः सञ्चरन्तो वृक्षाद्यवस्था भवन्तीति क्षपणः । अनित्यता सामान्या सिद्धिव्विनिश्चयेस्ति ।
...