________________
१४
प्र० वा. वृत्तौ (१ परिच्छेदः) एतदेवाह. (1) वस्तुभेदे प्रसिद्धस्य शब्दसाम्याद दिनः । न युक्तानुमितिः पाण्डुद्रव्यादिवद् हुताशने ॥१४॥
वस्तुभवे घटे प्रसिद्धस्य पुरुषपूर्वकत्वस्य सन्निवेश इति शब्दसाम्यावभेदिनः सन्निवेशमात्रात् पर्वतादौ न युक्तानुमितिः पाण्डुद्रव्यादिवद् हुताशने। यथा पाण्डुविशेषस्य धूमस्य कारणत्वेन दृष्टे वह्नौ पाण्डुशब्दसाम्यादभेदिनो यतः कुतश्चिद् पाण्डुद्रव्याद् धूमादेरनुमान मनुचितमतो यत्तद् बुद्धिमद्व्याप्तं सन्निवैशा'दि. त'द्धर्मिणि नास्तीत्यसिद्धिर्हेतूनां ॥(१४)
ननु सन्निवेशादिसामान्यादसन्निवेशादिव्यावृत्त्या हेतवो भविष्यन्तीत्यत आह (1) अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ॥१५॥ . . . अन्यथा यदि साध्यव्याप्तं विशेषं त्यक्त्वा सामान्यं लिङ्गं क्रियते तदा कुम्भकारेण कस्यचिद् घटादेद्विकारस्य करणाद्वल्मीकस्यापि मृद्वि कारत्वात्तेन कुम्भ . कारेण कृतिः करणं सिध्येत ।(१५) .. - स्यादेतत् (0) न मृद्विकारत्वं कुम्भकारव्याप्तं तमन्तरेणापि वल्मी कस्योत्पत्तेः। यद्ये 'वं बुद्धिमन्तमन्तरेणैतत्तन्वादि जायत इति तदपि पक्षो न स्यात् । अथ पक्षेण न व्यभिचारः वल्मीकेप्ययं न्यायः समानः (1) तस्मात्सन्निवेशादिसामान्यं व्याप्त्यसिद्धेरनैकान्तिकमेव । न चैतत्कार्यसमं दूषणं यतः (1) A साध्येनानुगमात् कार्ये सामान्येनापि साधने।
सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥१६॥
साध्येनानित्यत्वेनानुगमाद् व्यापनात् कार्ये कृतकत्वे सामान्येनापि साधने कृते सम्बधिनोः साध्यमिदृष्टान्तर्मिणो दात् सम्बद्धस्य साधनस्य' भेदोक्त्या यदि साध्यमिगतं कार्यत्वं हेतुस्तदा नान्वयसिद्धिरथ दृष्टान्तगतं तदाऽसिद्धो हेतुरिति यो दोषः स कार्यसमो मतः॥ (१६) ___ अत्र तु सन्निवेशादिसामान्यं न साध्यव्याप्तं सिद्धमिति विशेषेऽसिद्धत्वं सामान्ये
'घटादेः। पर्वतावो। घटवत्।
घटस्य कृतकृत्वं शब्वे नास्तीति यथाकायें जात्युत्तरं तयेदमिति चेत् ।
वनः। नन्वेतत् कार्यसमं सामान्ये हेतौ विशेषपरिकल्पनादिति ॥ ... अविशिष्टसंस्थानसामान्यस्यैवाभावात्।