________________
आगमचिन्ता
संस्कृतस्योपलम्भे च कः संस्कर्त्ताऽविकारिणः ॥२५४॥ इन्द्रियस्य स्यात् संस्कारः शृणुयान्निखिलञ्च तत् ।
संस्कृतस्य चोपलम्भे च स्वीक्रियमाणे नित्यत्वादविकारिणः कः संस्कर्ता नाम । न ह्यनुपकुर्व्वन् संस्कर्त्ता' अनुपकार्यो वा संस्कार्यः । अथेन्द्रियमनित्यत्वात् संस्कार्यं ततः संस्कृत एव पश्यति नान्य इति विभागः । सत्यमिन्द्रियस्य स्यात् संस्कारः । किन्तु तदिन्द्रियं निखिलं च शब्दग्रामं शृणुयात् न त्वेकशब्दं । ' संस्कारभेदभिन्नत्वादेकार्थनियमो यदि ॥ २५५ ॥
• अनेकशब्दसंघाते श्रुतिः कलकले कथम् ।
संस्कारस्य शब्दविषयस्य भेदात् प्रतिनियमाद् भिन्नत्वादिन्द्रियसंस्काराणामेकस्मिन्नर्थे शब्दे नियमः श्रुतिर्यदीष्यते तदानेकशब्दसंघाते कलकले श्रुतिरनेकेषां शब्दानां कथं'संस्कारप्रतिनियमादिन्द्रियं नानेकशब्दग्राहि स्यात् ।
३
अथ (1)
ध्वनयः केवलं तत्र श्रूयन्ते चेन्न वाचकाः ॥ २५६ ॥ ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमविवक्षितम् ।
तत्र कलकले ध्वनयः शब्दव्यञ्जकाः केवलं श्रूयन्ते न वाचकाः शब्दाः (1) ध्वनिभ्यः श्रूयमाणेभ्यो भिन्नं' शब्दरूपमस्तीति यत्किञ्चिदिदमतिश्रयं । श्रद्धावशाद् यद्येतदङ्गीक्रियते न तु प्रमाणबलात् ।
किञ्च (1)
स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥२५७॥
कलकले ध्वनिमात्रं यदि श्रूयते न शब्दः तदा बहूनां व्याहर्तॄणां तूष्णीम्भाबादन्येष्वप्येषु शब्वेषु स्थितेषु एकस्मिन् पुरुषे व्याहरति कर्म वाचकः भूयते
१ अथ यथा शब्दप्रतिपत्त्यन्यथानुपपत्त्येन्द्रियस्य संस्कारकल्पना तथा संस्कारभेदो यतः प्रतिविषयं भिन्नत्वादिन्द्रियस्यैकशब्दस्य ग्रहणं । प्रतिनियता हि संस्काराः शब्दानां तत्र केनचित् संस्कृतमिन्द्रियं कस्य ( चि) देव ग्राहकं ।
तस्मात् ताल्वादिना शब्दकरणमेव तेन यावन्तः श्रूयन्ते । 1 वाचक एव प्रतिनियतशक्तीन्द्रियं न ध्वनिषु ।
" वर्णपदादिशब्दस्य ध्वनिविशेषत्वात् ।