________________
75b
प्र० वा० वृत्तौ (३ परिच्छेदः)
किञ्च ( 1 ) वाक्यन्तन्नित्यमनित्यम्वा स्यात् ।
३८०
अनित्यं यत्नसम्भूतं पौरुषेयं कथन तत् ॥२५९॥ नित्योपलब्धिनित्यत्वेऽप्यनावरणसम्भवात् ।
यद्यनित्यं पौरुषेयं कथं न तत् यत्नसम्भवात् घटादिवत् । नित्यत्वेप्युपलब्धिनित्या भवेत् । वाक्यानामनावरणसम्भवात् । आवरणायोगात् । यदि नित्यं कदाचिदुपलभ्यते तदा तस्यानावृतस्वभावताऽभ्युपगन्तव्या । तादृशं नित्यमुपलभ्येताभिमतकाल इव। आवृतस्वभावे तु सर्व्वदाऽनुपलम्भः स्यात् । तस्मात् कालभेदेनोपलभ्यानुपलभ्यस्वभावत्वादेकस्य नाशादन्यस्योदय इति स्यात् । तथा च नित्यत्वक्षतिः ।
एकस्वभाव एव शब्दः परं (1)
अश्रुतिविकलत्वाच्चेत् कस्यचित् सहकारिणः ॥२५२॥ काममन्यप्रतीक्षोक्तिर्नियमस्तु विरुध्यते ।
कस्यचित् सहकारिणो ज्ञानजनकस्य वैकल्यादश्रुतिरिति चेत् । काममन्यस्य सहकारिण उपकारकस्य प्रतीक्षापेक्षणमस्तु नियमः पूर्वापरैकस्वभावतावरणन्तु शब्दानां विरुध्यते । न ह्येकस्वभावः परमपेक्षते चेति क्षमं । उपकारकस्यापेक्षणीयत्वात्। उपकारान्तरस्य च स्वभावान्तरलक्षणत्वात् ।
अपि च शब्दा अव्यापिनो व्यापिनो वा स्युः । तत्र ( 1 )
सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि || २५३ || सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि ।
यद्यव्यापिता तेषां सर्व्वत्र देशेऽऽनुपलम्भः स्यात् । न ह्येकदेशस्थितः शैलः सर्व्वत्रोप' लभ्यते। योग्यतातिशयलाभाद् व्यञ्जकेभ्यो दृश्यते एवेति चेत् । एवन्तर्हि सर्वैः सर्व्वदेशस्थैरुपलभ्येत । तथा व्यापिता यदि सर्व्वेषां शब्दानां युगपदुपलम्भः स्यात्। व्यापित्वात् सर्व्वेषां सर्व्वत्र भावात् ।
अथ व्यापित्वेपि य एवाभिव्यक्त्या संस्कृत: स एवोपलभ्यते नेतरः ।
" अवश्यं ह्युत्पत्तिमदनित्यं कुतश्चित् स्यान्निर्हेतुकत्वे देशादिनियमाभावात् तच्च पुरुषप्रयत्नान्वयव्यतिरेकानुविधायिपौरुषेयमेव स्यात् । किञ्चिदेव प्रतिनियतं वस्तुस्थित्यास्ति तत्कदाचित् कस्यचिद् भवति तेन क्वचित् कदाचिच्छ्रवणं ।
२ श्रोत्रजप्रतिज्ञया नित्यत्वं व्यापित्वञ्च शब्दानामित्याह ।
३ प्रयत्नाभिहतवायुना संस्कृतस्य शब्दस्य संस्कृतेनैवेन्द्रियेणोपलब्धेर्न प्रसङ्गः ।