SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ आगमचिन्ता रूपे ताद्रूप्यं वाचकत्वं कल्पितं कल्पनाबुद्धिनिर्मितं माणवक्ादाविन सिंहतादि । ततः पौरुषेयमेव वाचकत्वं स्यादिति प्रस्तुतक्षतिः ॥ d. अथ प्रत्येकमवयवानां सार्थकत्वं तदा (1) प्रत्येकं सार्थकत्वेपि मिथ्यानेकत्वकल्पना ॥२४९॥ एकावयवगत्या च वाक्यार्थ प्रतिपद् भवेत् । एक प्रत्येकं सार्थकत्वेपि मिभ्यानेकत्वस्यानेकावयवात्मकस्य कल्पना' स्मादर्थप्रतीतेः। तथैकस्यावयवस्य गत्या वाक्यार्थस्य प्रतिपत् प्रतीतिर्भवेत् (1) एकस्यापि वाचकत्वात् । तत्समुदायो वाचक इति चेत् । स किन्तेभ्यो भिन्नः । स च प्रत्युक्तः (।) अवयवा मिलिताः समुदाय इति चेत् । स च नः सम्भवत्येव । तद् यदि प्रत्येकं वाचकत्वमेव तदैषां प्रत्येकं वाचकत्वे चैकस्मादपि स्यादर्थप्रतीतिः । अथ (i) सकृच्छ्रुतौ च सर्वेषां कालभेदों न युज्यते ॥२५०|| एकावयवगत्माऽर्थप्रतिपत्तेरवयवान्तरवैफल्यदोषात् सर्व्वावयवानां सकृच्छ्रुति-, रिष्यते । तदा सर्व्वेषामवयवानां सकृच्छ्रुतौ चाभिमतायामवयवश्रवणस्य कालको न युज्यते । दृश्येत च । (ग) स्फोटनिरास: अथानव' यवमेकं वर्णेभ्यो व्यतिरिक्तं स्फोटरूपं वाक्यं तच्च क्रमवद्विन्नियतानुपूर्वीकैर्ध्वनिभिः क्रमेण व्यज्यते । व्यक्त्यनुक्रमेणैव च क्रमवत् प्रतीयते तद्रूपांविभागेन नाद रूपाणाम्वर्णानां ग्रहणात् कर्णविभागावच्च लक्ष्यते । वस्तुतस्तथारहितमपीति केचित् । एकत्वेपि भिन्नस्य क्रमशो गत्यसम्भवात् । तदेकत्वेपि भिन्नस्यानवयवस्य स्फोटरूपस्य वाक्यस्य प्रथमध्वनिनापि व्यक्तत्वात् कम'शो' गतेः प्रतीतेरसम्भवात् सकृत् प्रतीतिप्रसङ्गः । मदि प्रथमव्यक्तौ न प्रतीतिरपरास्वपि न स्यात् । तदेकव्यञ्जकत्वाद् व्यक्तीनां । वाचकत्वस्य पुरुषेण कल्पितत्वात् । 'वाक्यार्थेन । + 'एकस्याप्यवयवस्य वाक्यार्थवत्वादवयवान्तरापेक्षा न स्यात् । मरकच्चारणे पूर्ण ● नावानां भेदात् । H 'यदा चैकोप्यक्पवोर्यवान् तदा । एकावयवबोक्काले सर्व्वत्र श्रवणात् । -गृहीतागृहीत्तयोरभेदात् । * जतिस्फोटस्तु जात्यभावादेक निरस्तः ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy