________________
૨૭:
प्र० वा० मूली (३ परिच्छेदः)
पूर्वसंस्कारानादेः सन्ततेः सन्तानेन प्रवृत्तेः ।
अथानादित्वात् म्लेच्छादिव्यवहाराणाञ्चापौरुषेमतास्त्वित्याह । तादृशेऽपौरुषेयत्वे कः सिद्धेपि गुणो भवेत् ॥ २४६॥
तादृशे म्लेच्छादिव्यवहारसाधारणेऽपौरुषेयत्वे सिद्धेपि को गुणः अविसम्वा752 दलक्षणो भवेत् । पौरुषेयवाक्यानां विसम्वादादर्शनादपौरुषेयत्वमिष्टं । स च तस्मिन्नपि सति म्लेच्छादिव्यवहाराणामिव' दुष्परिहरः ।
(ख) 2. अनादित्वेऽर्थ संस्कारमेदेन संशयः
अथ वेदवाक्यानामेवानादित्वादपौरुषेयत्वं तदा ( । ) “अर्थसंस्कारभेदानां दर्शनात संशयः पुनः ।
संस्कारो व्याख्यानं तस्य भेदानां विकल्पानां प्रकृतिप्रत्ययानेकार्थ? त्वात् रूठेनिरुक्तादिभ्यश्च यथाप्रतिमं पुंसान्दर्शनात् संशयोऽर्थनिश्चयाभावः । b. कस्य चापौरुषेयत्वमिष्टं किम्वर्णानामुत पदवाक्यानामित्याह । अन्याविशेषाद वर्णानां साधने किं फलं भवेत् ॥२४७॥ अन्यैर्लोकिकैर्वणैर्वेदिकानामविशेषात् प्रत्यभिज्ञायमानत्वेनैकत्वादपौरुषेयत्वस्य' साधने किं फलं भवेत् (i) तथात्वे लौकिकानामर्थव्यभिचारात् । c. वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः । अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥ २४८॥ तद्रूपे च ताद्रूप्यं कल्पित सिंहतादिवत् ।
वाक्यं पदञ्च वर्णेभ्यो भिनं न विद्यतेऽनुपलम्भात् ( 1 ) तत्कथमस्यापी - रुषेयत्वं साध्यं । अभिन्नं चेत् तदानेकावयवात्मत्वे वाक्यस्य तेषामवयवानां पृथक प्रत्येक निरर्थकतेति पदात्मकमनर्थकमेव स्यात् । ततश्चातद्रूपेऽवाचक
'अपौरुषेयत्वं कल्पयित्वापि पुनः संशय एव यतो वेदार्थव्याख्याविकल्पानामाचार्यभेदेन भेदः ।
* वर्णविकल्पमधिकृत्य ।
प्रत्येकं वर्णानर्थक्यादर्यप्रतीति कार्यान्यथानुपपत्त्यास्ति पावीति चेन्न यावान्ववर्णसमुदायोर्थप्रतीतये संकेतस्तावतोर्थप्रतीत्यभाव एतस्मान्न चैवं दृश्यानुप
पवादेः ।