SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगमचिन्ता २७७ इत्यादयः प्रवितन्यन्ते विस्तार्यन्ते सर्व्वे ते व्यभिचारिणोऽनैकान्तिकाः न हि वेदाध्ययनमित्येवाध्ययनपूर्वकं कृत्वा करण 'पूर्व्वकस्याप्यध्ययनस्योपपत्तेः । अरणिनिर्मथनस्य च वह्नेर्भावाविशेषात् । भवतु वा । सर्व्वथाऽनादिता सिद्ध्येदेवं नापुरुषाश्रयः || २४४॥ तस्मादपौरुषेयत्वे स्यादन्योप्यनराश्रयः । एवं वेदाध्ययनमध्ययनपूर्व्वतासा' धनं तथापि सर्व्वथाऽनादिता वेदाध्ययनस्य सिध्येत् डिम्भकपांशुक्रीडादीनामिव नापुरुषाश्रयः पुरुषाश्रयणाभावस्तु न सिध्येत् । डिम्भकपांशुक्रीडा दयो हि दर्शनपूर्व्वका अनादयश्च न चापौरुषेयाः डिम्भकैरेव क्रियमाणत्वात् । एवं शब्दा अप्यध्येतृभिरेव क्रियन्ते न तु स्वयमात्मानं ध्वनयन्ति येनापौरुषेयाः स्युः । अनादिस्तादृक् कर'णक्रमः पुरुषपरंपराया अनादेरागतत्वात् । • अथानादित्वादेवापौरुषेयतेत्याह । तस्यानादित्वादपौरुषेयत्वे साध्ये स्यादन्योप्यपौरुषेयोऽनरामय इति प्रसङ्गः । b. तमेवाह । म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि ॥ २४५॥ अनादित्वाद् तथाभावः ; म्लेच्छावेर्व्यवहाराणां मातृविवाहमुक्तिप्रापणमारणादीनां नास्तिक्यवचसा॰मपि परलोककर्मफलाद्यपवादिनामनादित्वात् तथाभावोऽपौरुषेयत्वं स्यात् । यदि पौरुषेयाः कथमनादय इत्याह । पूर्वसंस्कारसन्ततेः । १ वेदक्रियाशक्तिरहितस्योपदेष्टुपूर्व्वकाध्यायवृष्टि ब्रह्मादेरपि तथात्वं स्वयं रचयित्वाध्ययनसंभवाविरोधात् । * यद्वेदाध्ययनमित्यादौ वा । ७ स्वयं कृत्वा । ३ अभ्युपगम्याह । # आदिना भोजनादि बालस्य । * लोकव्यवहारः । " मृते भर्त्तरि पुत्रेण मातृविवाहः कार्यः । वृद्धादीनां मारणं संसारमोचनार्थं आदिना मदनत्रयोदश्यां मदनोत्सवः पुत्रादिजन्मोत्सवः । • लोकायतिकानां । ४८
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy