________________
प्रत्यभिज्ञाचिन्ता
२७५ अविगुणपूर्वज्ञानानपेक्षायामालयादिन्द्रियज्ञानानीव विकल्पज्ञानान्यपि सह जायेरन् । अणुपरिमाणस्य नित्यस्यैकस्य मनसोऽन्यस्मिन्निन्द्रिये सक्तस्यान्यवेन्द्रियान्त रेऽगतेरगमनादिन्द्रियान्तरजस्य ज्ञानान्तरस्यानुदयो यदि सम्मतः सो पि न युक्तः। कदाचिद् नर्तकीदृष्ट्य वस्थादिष्वनेकविषयसन्निपाते चक्षुरादिज्ञानानां सहोदयात् । (५२४) ___ यदा च न पटीयान् कश्चिद्विषयः प्रत्युपतिष्ठते पुरुषस्य च न क्वचिद्विशेषेणेच्छा भवति तदा (1)
समवृत्तौ च तुल्यत्त्वात्सर्वदान्यागतिर्भवेत् ।
जन्म चात्ममनोयोगमात्रजानां सकृद् भवेत् ॥५२५॥ अर्थपुरुषेच्छायाः समायां साधारणायां वृत्तौ च मनस एकेन्द्रियसम्बद्धस्य तुल्य त्वाद्विषयान्तरे प्रेरकाभावात् उदासीनत्वात् सर्वदा तदिन्द्रियज्ञानोत्पत्तौ सत्यामन्यस्येन्द्रियान्तरज्ञानज्ञेयस्यागतिर्भवेत् प्रतीतिर्न स्यात्। अस्ति च क्वचिद नासक्तस्य विषयान्तरेष्वेकस्याप्यनेकार्थदर्शनं । आत्ममनोयोगमात्रजानां विषयानिरपेक्षाणां सुखादिज्ञानानामिन्द्रियमनोयोगविशेषस्य निया मकस्याभावात् सकृद् वा जन्म स्या त्। (२२५)
एकैव चैत्क्रियैकः स्यात् किन्दीपोऽनेकदर्शनः ।
क्रमेणापि न शक्तं स्यात्पश्चादप्यविशेषतः॥५२६॥ न हि रूपादिबुद्धीनामेव सुखादिबुद्धीनामिन्द्रियमनोयोगविशेषात् प्रतिनियमः शक्यो वक्तुं एकस्मान्मनस एकैव सुखादिबुद्धिलक्षणा क्रिया जायते न च द्वे इति चेत् । यद्येवं किं कस्माद्दीप एकोऽनेकदर्शनोऽनेकद्रष्टज्ञानजनकः। द्रष्टुर
१ यतो विषयान्तरादिदुक्षुः स्यात्।
२ सकृदपि दीर्घशष्कुलीसमर्मरनि समुहद्बहलामोदां धवलादिरसान्वितां अतिस्पर्शवतीं कुड्यां मिश्रतो (?ता) नेकेन्द्रियज्ञानस्य सम्वेदनात् स्फटिकतुल्ये समनन्तरे सकृत्संगतसर्वार्थष्विन्द्रियेष्वसत्स्वपीत्यादौ साधितं प्राक् ।
__३ वैशेषिक आह (1) अणु मनोद्रव्यं पृथिव्यादिद्रव्येषु पतितं। ज्ञानन्त्वात्मगुणो नवस्वात्मगुणेषु मध्ये पाठात्। ४ यत्रात्मा मनसा तदिन्द्रियेण तद्विषयेण तत्र क्रमोत्पत्तिकल्पनैवं स्यादपि। आत्ममनसोनित्यत्वादविशेषात्तत्प्रतिबद्धसन्निकर्षोप्यविशिष्टः। न क्रमनियामकं मन एकत्वात् सकृदात्मसंयोगात् ।
आत्मानं कर्तारमपेक्ष्य कारणभूतात्।