________________
प्र० वा० मूसी (३ परिच्छेदः)
प्रत्येकं समर्थाः स्थितिबीजादयोऽकुरजनने न च केवला जनयन्तीति चेत् । ये समर्था न तेषां क्षणिकत्वात् पृथग्भाव इत्यसमानं । समुदिता एव तु समर्थाः । न त्वेवं वर्णानां क्वापि समुदायः क्रमोपलभ्यत्वात् । तदा चेद् प्रतिपादका अवाचका एव । पूर्व्ववर्णग्रहणसंस्कारेपि किमन्त्यवर्णबुद्धौ सर्व्वे प्रतिभान्ति न वा । न तावदुपलभ्यन्ते ततस्तदुपदर्शमपि व्यर्थं सर्व्वेषु क्रमात् प्रतीतेषु स्मृतिः समुदायविषया भवतीति चेत् । किम्वर्णानां समुदायोस्ति प्रतीतो वा यः स्मयंते केवलं कल्प्यते। कल्पितस्य वाचकत्वाभ्युपगमे न विवादः । तस्मान्न वर्णे सम्बन्धवृत्तिः ।
पदवाक्यादिषु तर्हि स्यादिति चेत् ।
३७४
पदादिपरिकल्पितम् ॥ २३८॥ वस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ।
न हि क्रमोच्चारितेभ्यो वर्णेभ्यो व्यतिरिक्तं पदादिकमुपलभ्यते ( 1 ) केवलं कल्पनाबुद्धया" क्रमोच्चारितानां वर्णानां समुदायः कल्पितः पदं । पदानाञ्च समुदायः कल्पितो वाक्यमुच्यते । तच्च कल्पितत्वादवस्तु । अवस्तुनि सम्बन्धस्य वस्तुनः कथम्वृत्तिः । न हि शशविशा ( ? षा ) णस्य नीलादिर्द्धमों युक्तः । तदेवं न सम्बन्धो नित्योऽनित्यो वा युक्त इति स्थितं ॥
ग. नापौरुषेयता
अपौरुषेयतापीष्टा कर्त्तृणामस्मृतेः किल ॥२३९॥ सन्त्यस्याप्यनुषकार इति धिग्व्यापकं तमः ।
वेदवाक्यानामपौरुषेयतापि केनचि न्मी मां स क प्रवरेणेष्टा कर्त्तृणामस्मृतेः । लिङ्गात् किल । अक्षमायां किल शब्दः । अस्याप्यर्थस्य न्यायाद् द्दूरमायातस्या
* वैयाकरणानां वर्णादिव्यतिरिक्तं पदादि निरस्यते ।
भिन्नवर्णानुभवात् कथमेकपदाद्यवभासौ विकल्पः । अस्ति चेत्यनुभवोस्तीत्याह क्रमवर्णानुभवदृष्ट भाविमनोविज्ञानं वर्णान्यदादित्वेनैकस्वभावानष्यवस्यति मिष्याविभ्रमोऽनादिः ।
*बहूनां जीर्णकूपादीनां कर्त्ता न स्मर्यते न च तावताऽकर्त्तृता । इति व्यभिचारावयुक्तं लिङ्गं जैमि (नि) नोक्तं ॥