________________
आगमचिन्ता
भिन्नत्वाद् वस्तुनोः सम्बन्धिनोः रूपस्य सम्बन्धः स्वलक्षणः कल्पया कृती न वास्तवः। अन्यथा सद्रव्यं सम्बन्धाख्यं पराधीनं सम्बन्धाय कथं स्यात् ।". hear भिन्नयोः सम्बन्धिनोः श्लेषलक्षणः सम्बन्धः परस्परममिश्रस्वभावत्वात् सर्व्वस्य तथापि सम्बन्धेतिप्रसङ्गात् ।
(६) वर्णपदादिषु सम्बन्धस्यासद्भावः
किञ्च (1)
वर्णा निरर्थकाः सन्तः;
अयं सम्बन्धो वर्त्तमानो वर्णेषु पदादिषु वा वर्त्तेत । तत्र वर्णाः सन्तो निरर्थकाः प्रत्येकं तेषामर्थप्रतिपादकत्वाभावात् । नानाप्रयोक्तृप्रयुक्तेभ्योऽर्याप्रतिपत्तेश्च व्यतिक्रमप्रयुक्तेभ्यश्च सरो रस इत्यादिभ्यस्तुल्या स्यात् प्रतिपत्तिस्तत्समुदायस्य चासम्भवः क्रमेणोपलम्भात् । न च समुदायो नाम समुदायिभ्यो भिन्नोऽनुपलम्भबाधित' त्वात् । तेषाञ्च वाचकत्वादेकस्मादपि 742 प्रतीतिः स्यात् । प्रत्येकं न चेद् वाचकाः समुदितेभ्योपि तेभ्यो न स्यात् प्रतीतिस्तदाप्यन्यस्याभावात् ।
. अथ क्रमेण वर्णेषु गृहीतेषु तत्संस्कारसहायेनाध्यक्षेण गृहीतादन्त्यवर्णादर्थप्रतीतिः । तत्किमन्त्य एव वर्णो वाचको नान्ये । तथा चेद् व्यर्थ तेषामुच्चारणं । सव्वेषु प्रतीतेष्वर्थप्रतीतिरिति चेत् । किमन्त्यवर्णग्राहिकया बुद्ध्या' सर्व्वत्र ग्रहणं । अन्यान्यबुद्धयैव चेत् । ताः किं बुद्धयोऽन्त्यवर्णबुद्धिकाले भवन्ति । येन तदार्थप्रतीतिरुच्यते । अन्यान्यकाल एवेति चेत् । यदि ताभिर्बाचका वर्णा गृह्यन्ते (1) एकैकवर्णग्रहणेप्यर्थप्रतीतिः स्यात् । वाचकेषु सर्व्वेषु गृहीतेषु प्रतीतिरिति चेत् । तदा तु न प्रत्येकं वाचकस्तदतिरिक्तश्च समुदायो नास्ति ॥
* एतेनार्थात्तरत्वे सम्बन्धस्याश्रितत्वं श्लेषञ्च गतः ।
२
३ वस्तुसन्तो विद्यमाना अपि । साहित्याभावेन । नानुमानालिङ्गाभावान्न हि केचिद् दृष्टान्ते सम्बन्धं कार्याऽर्श्वप्रतीतिः सम्बन्धस्यातीन्द्रियत्वेनेन्द्रियाविवत् साधनापेक्षणात् ।
1 to
" क्रमविशेषेणैकप्रयोक्तृप्रयुक्ता वर्णा एव वाचका इति न दोषश्चेत् । न क्रमस्य नार्थान्तत्वेन यद् रूपं सरे तद्रूपं रसेपीति तुल्या प्रतीतिः स्यात् ।
* न वर्णानुभवाहितसंस्कारस्य वर्ष्णेष्वेव स्मृतिहेतुत्वान्नार्थे न हि गवानुभवाहितसंस्कारोऽश्वस्मरणमावघति । वृष्टत्वादित्यपि न संकेतं विनाऽसस्यात् । संकेतश्च सामान्यविषयो न वर्णस्वलक्षणे 4.