________________
आगमचिन्ता
अथानित्य एव सम्बन्धस्तदा सम्बन्धिनां नाशे सम्बन्धस्य नष्टत्वनिरर्थकः
शब्दः स्यात् ।
अथवा ( । )
अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥२३२॥
शब्देषु युक्तः ;
वाच्यैरर्थैरेव सह सम्बन्धस्योत्पाद इष्यते (1) तदोत्पाद इष्यमाणेपि पूर्व्वमर्थेन सह सम्बन्धस्य विनष्टत्वात् । अर्थसम्बन्धरहितात्मसु शब्देषु स्वभावस्य सम्बन्धविकलस्य विपर्ययः सम्बन्धयोगी न युक्तः । न हि नित्यस्य पूव्वपिकस्वभाव'स्यान्यथात्वं युक्तं । अन्यथा नित्यताहानिप्रसङ्गात् ।
(ख) सम्बन्धः कल्पितः
१७१
अस्मन्मते तु (1)
सम्बन्धे नायं दोषो विकल्पिते ।
विकल्पिते कल्पनानिर्मिते सम्बन्धेऽयं स्वभावान्यत्वप्रसङ्गदोषो न भवति । न हि कल्पनाक्लृप्तो धर्मः स्वभावं वस्तुतः स्पृशति । -
नित्यत्वादाश्रयापायेप्यनाशो यदि सम्मतः ॥२३३॥ नित्येष्वाश्रयसामर्थ्यं किं येनेष्टः स चाश्रयः ।
सम्बन्धस्य' नित्यत्वात् आश्रयस्य वाच्यस्यापायेप्यनाशो यदि जाते रिव सम्मतः तदा नित्येषु जाति सम्बन्धादिष्वाश्रयस्य वाच्यस्य वाचकस्य च किं सामर्थ्यमुपकारविशेषाधायकं येन सामर्थ्येन स वाच्यादिराश्रय इष्टः । न ह्यनुपकार्यमाश्रितमतिप्रसङ्गात्। नित्यस्य चोपकारासम्भवः । भेदाभेदकल्पनायामयुक्तत्वात्
अथ नित्यस्यापि जातिसम्बन्धादेराश्रयेणाभिव्यक्तिलक्षण उपकारः क्रियते । न चाव्यक्तिहेतुः कारको दीपादिवत् घटादेरित्याह ।
ज्ञानोत्पादन हेतूनां सम्बन्धात् सहकारिणाम् ॥२३४॥ तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते । घटादिष्वपि युक्तिज्ञैः ;
' अर्थेन सहोत्पन्नस्यानुपकारिणि शब्देनाश्रयमाच्य सम्बन्धिनामनित्यत्वादित्यादौ पर ।"
३ नित्यत्वादाश्रयनाशेप्यनाशवत् ।
प्रसिद्धिमात्रं तभिर्व्वस्तुकं ।