________________
आगमचिन्ता
३६९
अथ संकेतात् सतोपि तस्य सम्बन्धस्याभिव्यक्ति (:) प्रदीपादिवद् घटादेरतो नागृहीतव्यञ्जकस्य व्यङ्ग्यप्रतीतिः । तदा (1)
संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥२२७॥
सङ्केतात् तस्य सम्बन्धस्याभिव्यक्ताविष्यमा 'णायां संकेतादन्यस्य सम्बन्धस्य कल्पना समर्था सम्बन्धव्यवस्थापनाय । संकेतादेव वाच्यवाचकभावस्य कल्पितस्य घटमानत्वात् हस्तसंज्ञादेरिवार्थप्रतिपादनस्य । ( २२७ )
किञ्च (1) वाचा किमेकेनार्थेन सह वाच्यवाचकसम्बन्धः । अथानेकैः । तत्र (1)
३
गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः ।
गिरामेकस्मिन्नर्थे वाचकतया नियमे सति संकेतवशादन्यत्रार्थे न स्याद् गतिः । दृश्यते च 'वि'वक्षातोऽनेकार्थाभिधानम् * ।।
अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥२२८॥
अनेकैरथैव्र्वाचकत्वाभिसम्बन्धे विरुद्धस्यार्थस्य व्यक्तेः प्रतीतेः सम्भवः स्यात् । अग्निष्टोमः स्वर्गस्य साधनमिति विपर्ययोप्यवसीयेत ( 1 ) ततश्चाप्रवृत्तिरेव स्यात्" स्वर्गार्थिनः । ( २२८ )
अथानेकार्थाभिधाय्यपि शब्दः पुरुषेण सङ्केतादभिमतार्थाभिधायित्वेन नियम्यते तदा (1)
पौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना ।
वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥२२९॥
अपौरुषेयतायाञ्च व्यर्था परिकल्पना स्यात् । तदभ्युपगमेपि पुरुषस्वातन्त्र्याभ्युपगमात् । तदार्थेभ्यो भिन्नानां शब्दानां तैः सह सम्बन्धस्य व्यवस्थिते: ' । हेतुश्च
' प्रतीत्यन्यथानुपपत्त्या सम्बन्धकल्पनमत्यर्थेपि चेन्न प्रतीतिः किन्तत्कल्पनया संकेत एवान्वयव्यतिरेकात् । "नित्ये सम्बन्धदोषमाह ।
' अनेकार्थप्रतिपादनस्य दर्शनात् सर्व्वे सर्व्वार्थवाचकाश्चेत् ।
# अभिमत एव समय इत्यनियमात् सर्व्ववाचकत्वे किं स्वर्गसाधन एवाग्निहोत्रादिसंकेतः किम्वा तद्विरुद्धं बुद्धिमान्द्यादिति संशयात् ।
* द्विधा शब्दविषयः साक्षाज्जातिस्तल्लक्षिता च व्यक्तिरिति व्यक्त्या सम्बन्धे सम्बन्धीत्यादि । < व्यवस्थाय (1): षष्ठी ।
४७