________________
३६८ प्र० वा. वृत्तौ (३ परिच्छेदः)
गिरा सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेयं मिथ्या किं नेत्यन्ये प्रचक्षते ॥२२५॥ तानेव' प्रति गिरां सत्यत्वस्य हेतूनां दयाधर्मपरत्वादीनां गुणानां पुरुषस्याअयादपौरुषेयं वाक्यं सत्यता हेतोः पुरुषगुणस्याभावात् मिथ्या किन भवतीत्यन्ये सौ ग ताः प्रचक्षते ॥ (२२५). किञ्च (1)
अर्थज्ञापनहेतुर्हि सङ्केतः पुरुषाश्रयः।
गिरामपौरुषेयत्वेष्यतो मिथ्यात्वसम्भवः ।।२२६॥ सङ्केतमन्तरेणापौरुषे यादपि वाक्यादर्थप्रतीतेरभावात्। अर्थज्ञापनहेतुरिह• सबुतः स्वीकर्तव्यः। स च पुरुषकृतत्वात् पुरुषाश्रयः। अतः संकेतस्य' पुरुषा
श्रयत्वात् गिरामपौरुषेयत्वेपि मिथ्यात्वस्य सम्भवः। संकेतवशेन वाचोऽयं ब्रुवते। स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न विसंवादशङ्कानिरासः। पौरुषेयवाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनं । (२२६)
क. अपौरुषेयत्वेप्यप्रामाण्यम् - अथ शब्दार्थ योः सम्बन्धो न पौरुषेयः किन्तु स्वाभाविकः ततो न मिथ्यात्वसम्भवः । तदा (1)
सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः । सम्बन्धापौरुषेयत्वेपीष्यमाणे स्यादर्थानां प्रतीतिरसंविदोऽविद्यमानसङ्केतप्रतीतेः पुंसः । न चेच्छब्दार्थयोः सांकेतिको वाच्यवाचकतासम्बन्धः किन्तु स्वाभाविकः। तदाऽगृहीतश (?स) केतोपि श्रुताच्छब्दादर्थं प्रतिपद्यतेति।
..मी मां स कानेव शास्त्रकारः परमुखेनाह। दयादीनां ।
"पुरुषनिवृत्त्या सत्त्वकारणनिवृत्तः कार्यस्यापि सत्त्वस्य निवृत्तितः शन्दे सत्यत्वमिथ्यात्वयोः पुरुषायत्तत्वात् पुत्वनिवृत्तौ सत्यवन्मिथ्यात्वं च स्यात् ।। __ वस्तुतः पुंनिवृत्या सस्थमिथ्यार्थत्वनिवृत्तेरानर्थक्यावनुत्पत्तिलक्षणमानर्थक्यं सस्तकाभावात् स्वभावतोयंबोषानुपपत्तिः ।
शब्दार्थानावितेव सम्बन्धोनादिः (1) स च त्रिप्रमाणकः श्रोतुर्बाधार्य केन शन्ने प्रयुक्ते पार्श्वस्थः प्रयोक्तारं वाच्यं वाचकञ्च बुध्यतेऽध्यक्षेण। श्रोतुश्च प्रतिपनत्वं प्रवृत्तिलिङ्गानुमानेन। अर्थप्रतिपत्त्यन्यथानुपपत्त्या च शब्दार्थाश्रितां बाध्यवाचकशक्तिमवगच्छत्यर्थापत्येति त्रीणि प्रमाणानि सम्बन्धस्य बोधे।