SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगमचिन्ता ऽगत्या । अत्यन्तपरोक्षेष्वर्थेषु दानहिंसाचेतनादिष्वर्थानयंश्रवणादागमप्रामाण्यमनाश्रित्य स्थातुमसामर्थ्यादेतद्भावे विरोधाभावाच्च सत्यां प्रवृत्ती? वर मेव प्रवृत्तिरित्यगत्या ऽनुमानतोक्ता । न तु वस्तुतो वचनानामर्थेषु नान्तरीयकत्वाभावात्। (२१६) किम्वा (1) हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः । प्रधानार्थाविसम्वादादनुमानम्परत्र वा ॥ २१७॥ किन्तु (1) हेयस्य दुःखसत्यस्य उपादेयस्य निरोधसत्यस्य सोपायस्य यथाक्रमं समुदयसत्यस्य समार्गसत्यस्य चागमोक्तवस्तुबलप्रवृत्तेनानुमाने प्रसिद्धितो निश्चयात् । सत्यचतुष्टयाधिगमस्य निर्वाणहेतुत्वेन प्रधानार्थस्याविसम्वादात् । परत्रात्यन्तपरोक्षेप्यर्थे भगवद्वचनादुत्पन्नं ज्ञानमनुमानं युक्तमिति वा पक्षान्तरं । (२१७) पुरुषातिशयापेक्षं यथार्थमपरे विदुः । इष्टो यमर्थः प्रत्येतुं शक्यः सोतिशयो यदि ॥२१८॥ अपरे नै या यि का दयः पुरुषस्यातिशयापेक्षं यथाभूतार्थदर्शि तदाख्यात् पुरुषप्रणीतं वचनं यथार्थं सत्यार्थं प्रतिजानीयुः ( 1 ) सिद्धान्तमाह (1) पुरुषातिशयप्रणीतं वचनं प्रमाणमितीष्टोऽयमर्थो यदि पुरुषाणां सोतिशयो ज्ञातुं शक्यः स्यात् । (१) पौरुषेयत्वे क. पुरुषातिशयप्रणीतं वचनं प्रमाणम् ३६५ श्रयमेवं न वेत्यन्यदोषानिर्दोषतापि वा । दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥२१९॥ अयं पुमानेवंद्वोषवान् न वा निर्दोष इत्यन्यस्य' दोषा निर्दोषतापि वा प्रमो- 72b णानां दुर्लभत्वाद् वुर्बोधे 'त्यपरे सौगता विदुः । दुब्बधेत्यन्यदोषा इत्यनेन लिङ्ग' वचनविपरिणामेन सम्बन्धनीयं । ' न तु प्रमाणगम्य एवार्थे विसंवादकात् । संभवात् । अथवा । " तत्त्वमविपरीतं रूपं । अतोन्यथापरोक्षे प्रवृत्य- ' अन्यगुणदोषनिश्चायकानां । चैतसानामतीन्द्रियत्वात् नापि रागाद्यनुमेयाः कायवचसां प्रतिसंख्य यान्यथात्वस्य शक्यत्वात् । पुल्लिङ्गबहुवचनं कृत्वा ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy