________________
प्र० वा. वृत्तों (३ परिच्छेदः) तस्किमशक्योच्छेदा दोषा नेत्याह। - सर्वेषां सविपक्षत्वानिहासातिशयं श्रितः।
। सात्मीभावात् तदभ्यासाद् हीयेरनास्रवाः क्वचित् ॥२२०॥ . सर्वेषामास्रवाणां रागादीनां प्रतिपक्षसंमुखीभावाभावयोनि सातिशयावुपच. यापचयो श्रयन्त इति निर्हासातिशयं नितस्तेषां सविपक्षत्वात् प्रतिपक्ष'सम्भवात् तस्य प्रतिपक्षस्याभ्यासात् सात्मीभावादारावा क्वचिच्चित्तसन्ताने हीयेरनिति खलु निर्दोषपुरुषापलापः क्रियते किन्तु तदवधारणोपायो नास्तीत्युच्यते । इच्छाधीनस्य व्याहारस्यान्यथापि कर्तुं शक्यत्वात्। न ततस्तथार्थनिश्चयः। -
अथ सात्मीयभूतप्रतिपक्षस्य मार्गाभ्यासान्निर्दोषतायामपि सत्यां विपक्षाभ्यासात् पुनर्दोषोत्पत्तिरित्याह।
... निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । - न बाधा यत्नवत्वेऽपि बुद्धस्तत्पक्षपाततः ॥२२१॥
निरुपद्रवस्य दोषराशेरुद्वेजकस्य प्रहाणात् । भूतार्थस्य प्रमाणपरिदृष्टार्थविषयत्वात्। स्व'भावस्यानारोपितत्वात् (1) मार्गसात्म्यस्य विपक्षेण न बाधा यत्नवत्वेषि। यत्न एव तावन्न सम्भवति विपक्षाभ्यासे दोषदर्शनात्। यत्नवत्वेपि तु युद्धस्तत्र मार्गसात्म्येऽभिरुचिविषयत्वेन पक्षपाततो न बाधा। न हि रज्वां निवृत्तसर्पभ्रमः सर्प भावयितुं यतते कश्चित् (1) भूतार्थस्य दर्शनात्।
ख. सत्कायदर्शनं दोषकारणम् कः पुनर्दोषाणां हेतुर्यत्प्रहाणादमी प्रहीयन्त इत्या ह।
सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् । सर्वासां दोषजातीनां दोषप्रकाराणां जातिर्जन्म सत्कायवर्शनादात्माभिनिवेशात्। नन्वविद्याहेतुकाः क्लेशा भ ग व तो क्ता इत्याह।
साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥२२२॥
नराम्यस्य। भूतार्थत्वादेव मार्गश्चित्तस्य स्वभाव उक्तः। .दोषप्रतिपक्षस्य विपर्ययैः सो यत्राभूतार्था स्वभावर्दोषैः न बाषार्थः थोत्रियः सन् कापालिको भवति तस्य पूर्वा घृणा यथाऽयत्नमशक्यनिवा तद्वत्। . बहुमानतः।