________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
विषशमनतक्षकफणारत्नालङ्कारोपदेशकमिव पुरुषार्थस्य स्वर्गापवर्गस्याभिधायकं न तु काकदन्तपरीक्षोपदेशकमिव परीक्षायां प्रवृत्त्यर्हविषयमधिकृतं वाक्यं । अतोऽपरमनधिकृतमनवधानार्हत्वात् ।
३६४
प्रत्यक्षेणानुमानेन द्विविधेनाप्यबाधनम् । दृष्टादृष्टार्थयोरस्याविसंवादः तदर्थयोः ॥ २१५ ॥
अस्य च परीक्षार्हस्य वाक्यस्याविसम्वादः तदर्थयो' रागमाभिधेययोर्दृष्टादृष्टयोः प्रत्यक्षा' प्रत्यक्ष 'योरर्थयोः प्रत्यक्षेणानुमानेन च द्विविधेनेति वस्तुबलभाविनाsaareयेण चाबाधनमन्येषाञ्च बाधनं नाम । यथा प्रत्यक्षत्वेन सम्मतानां पञ्चानां स्कन्धानां प्रत्यक्षेणाबाधनं सिद्धिरेव अप्रत्यक्षत्वेनेष्टानां शब्दादि त्रिगुणमयत्वद्रव्यकर्मसामान्यसंयोगादीनाञ्च तेन बाधनं । अनुमेयत्वेनेष्टानां चतुरार्यसत्यानां वस्तुबलप्रवृत्ते नानुमानेनाबाधनं सिद्धिरेव । अननुमेयत्वेनेष्टानाञ्चात्मेश्वरादीनामनुमानेन बाध एव । अत्यन्तपरोक्षाणां रागादिहेतुकाऽधर्मप्रहाणादीनामागमाश्रयानुमानेनाबाधनं सिद्धिरेवं रागादिहेतुत्वेनेष्टस्य हेतुत्वानुपरोधिनः स्नानोपवासाग्निहोत्रादेः प्रहाणोपायतयाऽनुपदेशात् हेतुव्याघातस्योपायत्वेनोपदेशाचैवं विधमबाधनमविसम्वाद इष्टः ।
आप्तवादाविसंवादसामान्यादनुमानता ।
बुद्धेरगत्याऽभिहिता निषिद्धाप्यस्य गोचरे ॥२१६॥
तस्यैवं भूतस्याप्तवादस्यादृष्टव्यभिचारस्याविसम्वादसामान्यात् " प्रत्यक्षानुमानागम्येप्यर्थे उत्पन्नाया बुद्धेरविसम्वादादनुमानता चा चार्य दिग्नागे नाभिहिता
१ गुणत्रययुक्तञ्च यद्यविसंवादि तदा प्रवत्तितव्यमित्यविसम्वादमाह । २ प्रत्यक्षानुमानविषययोः ।
सांख्ये शब्दादिस्वभावानां सुखदुःखमोहानां प्रत्यक्षेणाप्रतीतेः । वैशेषिकादेर्द्रव्यमाकाशादि । अनेकद्रव्यञ्च द्रव्यमवयवी । कर्मोत्क्षेपणादि । सामान्यं सत्ता गोवादि । आदिना विभागादि ।
8 नीलादिव्यतिरेकेणानुपलब्धेः ।
आगमापेक्षेण ।
नुमानता ।
'लिङ्गाभावान्नानुमेयता ।
• रागद्वेषादिस्वभावमधर्मन्तदुत्थं कायकर्मादि चाधर्ममभ्युपेत्य स्नानाद्य
नुक्तेः ।
“शक्यपरिच्छेदेऽविसम्वादवत्परोक्षेप्याप्तवादाल्लिङ्गादुत्पन्नायाः सम्वादबुद्धेर