________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
विरुद्धस्य' निवर्त्तकस्य वयादेर्भावस्य भावे तस्य श (? स ) लिलादेर्निवर्त्यस्य भावबाधनात्। तद्विरुद्धोपलब्धौ सत्यामसत्ता या विनिश्चयः स्यात् ।
नन्वनुपलब्धेरभावसाधने को दृष्टान्तः । व्योमकुसुमादिरिति चेत् । अत्रापि यद्यनुपलब्धेरभावसिद्धिस्तदा दृष्टान्तान्तरापेक्षायामनवस्थाप्रसङ्गः । तदनपेक्षायां तदनुपलब्धिरभावाख्यं प्रमाणमस्तु ।
असम्बद्धमेतत्। न ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धिरेव ह्यभावः स च सिद्ध एव । तथापि तु मूढः तमव्यवहरन् निमित्तो पदर्शनेन व्यवहार्यते । तथा च भावोऽभावस्य दृष्टान्तः । तयोः स्वनैमित्तिक प्रवर्त्तनस्य सिद्धत्वात् ।
૧૨
ननु यदिदं १० न सन्ति प्रधानादयोऽनुपलब्धेरिति तत्र कथमसद्व्यवहारविधिः सद्व्यवहारप्रतिषेधो वा । प्रधानादिशब्दवाच्यस्य' प्रतिषेधे तच्छब्दाप्रयोगात् । अत्राह ।
३६०
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥२०४॥ शब्दार्थविविध धर्मी भावाभावोभयाश्रयः ।
अनादिविकल्पाभ्यासवासनाया उद्भूतविकल्पे परिनिष्ठितः प्रतिभासमानः शब्दार्थो धर्मी त्रिविधः । कथ १ ३ मित्याह (1) भावाभावो भयाश्रयः । सदसदुभय
१ यदभावः साध्यस्तद्विरुद्धस्यानयोरुपादानयोरन्योन्यवैगुण्यस्याश्रयत्वेनारम्भविरोधात् । २ प्रतिषेध्यस्य । ३ उपलब्धिलक्षणप्राप्तस्य ।
" अनुपलम्भेन ।
४ अभावतत्स्वभावानुपलब्धावभावव्यवहार एव साध्यते । $ व्यवहारं । • निरुपाख्योपि ।
८
यथा दृश्यः सन् दृश्यते तथा दृश्योऽसन्ननुपलब्धेः ।
* उपलब्ध्यनुपलब्ध्योर्भावाभावव्यवहारप्रवर्त्तनस्य । यस्य यत्र निमित्तं सकलमप्रतिबद्धमस्ति तत्र तेन भवितव्यं यथाऽङ्कुरादि । अस्ति चोपलब्धिलक्षणप्राप्तस्यानुपलब्धावसद्व्यवहारनिमित्तमिति स्वभावहेतुः अनुपलब्धिः ।
१० ( दिग्) नागादिनोक्तं ।
११ वाच्यम्विना वाचकाप्रयोगात् प्रधानं ।
१२ प्रधानशब्दाप्रयोगे प्रतिषेधोपि प्रतिषेध्याकीर्त्तनान्निव्विषयस्याप्रयोगादयुक्त इति चोदकाशयः ।
१३ कथं भावाश्रयोर्थजन्यत्वेनाविकल्पत्वप्रसङ्गात् कथमभावाश्रयस्तस्याकारणत्वात्। उभयेऽहेतुकत्वात् त्यक्तः ।