SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ शब्दचिन्ता (अनुपलग्विचिन्ता) नास्ति' विरक्त'चेत इत्याद्य युक्तं (1) न च कारणमित्येव कार्याण्यव्यवधानतो भवन्ति (1) ततो नास्ति दानहिंसाविरतिचेतनानामभ्युदयहेतुता फलानन्तर्याभावादित्ययुक्तं । (२००) कार्ये तु कारकाज्ञानमभावस्यैव साधकम् । कारकाज्ञान न्तु कार्येऽभावस्यैव साधकं (1) न ह्यसति कारणे कार्यसंभवः । स्वभावानुपलम्भश्च स्वभावेर्थस्य लिङ्गिनि ।।२०१॥ तदभावः प्रतीयेत हेतुना यदि केनचित् । तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये लिङ्गिन्यसत्तया साध्ये साधनं तदा च कारणव्यापकानुपलब्धी गमिके यदि केन चिद्धेतुनोपलब्धिलक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रतीयते (1) न तूपलम्भाभावमात्रेण सन्दिग्धासिद्धत्वात्। ख. स्वभावानुपलब्धिः स्वभावानुपलम्भमाह। - . दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥२०२॥ भावस्यानुपलम्भस्य भावाभावः प्रतीयते । वृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं व्यवधानेन्द्रियवैकल्यादि तस्यासम्भवे:सति भावस्यानुपलब्धस्य भाव (=सत्ता)भावः स्वभावानुपलब्धेः प्रतीयते ॥ ग. अनुपलब्धिरेवाभावः विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥२०॥ तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः । १ अनुमानिवृत्तिरुक्ता लिङ्गाज्ञानेन। २ हिंसाविरतिचेतनादे भ्युदयहेतुतादि।---- ३मूषिकादिविषविकारवद् व्यवहितं फलं स्यात् । ४ कारणानुपलम्भः साध्येऽनुपलब्धिर्या पृश्येपि। "यदि कथञ्चित् कारणाभावः सिध्येत तवा कार्याभावः साध्यः यथा नात्र धूमोनग्नः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy