________________
प्र० वा० वृत्ती (३ परिच्छेदः)
यत्र तर्हि प्रत्यक्षानुमानयोः शास्त्रस्य निवृत्तिस्तस्याभाव एव साधयितुं युक्त इत्याह ।
३५८
शास्त्राधिकारासम्बद्धा बहवोर्था अतीन्द्रियाः ॥ १९८ ॥ अलिङ्गाश्च कथन्तेषामभावोनुपलब्धितः ।
शास्त्राधिकारे ऽसम्बद्धा अनेन शास्त्रविषयत्वमाह (1) बहवोऽर्था अनियत - कारणोपनिपातजन्याः सूक्ष्मा दुर्लक्षभेदा मनोवृत्तयो जन्मिनां । देशफलव्यवहिता वानुत्पन्ना द्रव्यविशेषा अतीन्द्रियाः । अनेन प्रत्यक्षाविषयतामाह । लिङ्गाच्चाननुमेयतामाह । तेषामर्थानां प्रत्यक्षानुमानशास्त्रनिवृत्तिलक्षणाया अनुपलब्धितः - कथमभावः साधयितुं युक्तः । सत्यप्यनुपलम्भे तेषां सत्त्वसम्भवात् ।
अत ईदृश्यनुपलब्धिः ।
सदसनिश्चयफला नेति स्याद् वाऽप्रमाणता ॥ १९९॥ प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी ।
सतोsसनिश्चयफला नेति अप्रमाणता वाऽस्याः स्यात् । सत्त्वप्रतिषेधे साध्यें काचित् त्वनुपलब्धिल्लिङ्गजा प्रतीतिरस्मिन्नेव साध्ये प्रमाणमपि स्याल्लिङ्गाति712 शयभाविनी लिङ्गविशेषप्रभवा । यथोक्तं प्राग्धेतुभेदव्यपेक्षयेति (1) उपलब्धिलक्षणप्राप्तानुपलब्धिलिङ्गजेत्यर्थः ।
स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ २००॥
यत् पुनरुक्तमप्रमाणमनुपलब्धिरिति । यस्य कस्यचित् स्वभावस्य ज्ञापकस्य' लिङ्गस्य चाज्ञानस्यानुपलब्धे ' रयं न्याय उदाहृतः । न हि स्वभावो नोपलभ्यत इत्येव नास्ति । देशकालस्वभावविप्रकृष्टानामदर्शनेपि सत्त्वाविरोधात् । ततो
" शास्त्राधिकारो यत्र प्रकरणे तत्रान्तरीयकाः ।
* सनिश्चयफला न सद्व्यवहारनिमित्ताभावात् । नाप्यसन्निश्चयफला सन्देहात् । इति हेतोः स्याद्वास्या अप्रमाणता । निश्चयफलं हि प्रमाणं ।
शास्त्रं हि पुरुषार्थमधिवृत्तं तत्र च न सर्व्वमधिकृतं पुरुषचेतोवृत्तीनां प्रत्येकमानन्त्येनाशक्यवचनत्वादनियतान्निमित्ताद् भवनशीलत्वाच्च बहुत्वं । देशादिविप्रकृष्टाः पुरुषानुपयोगिनो न निर्देश्याः । लिङ्गस्यानुपलब्धेरतिशये उपलब्धिलक्षणप्राप्तत्वं तद्भावो यत्रास्ति ।
४ भस्मविशेषेण किन्तु पिशाचादेः । अवश्यविषयायाः ।
* स्वभावज्ञापकयोरज्ञानं तस्य ।
• स्वभावाज्ञानेन प्रत्यक्षनिवृत्तिरुक्ता ।