________________
शब्दचिन्ता (अनुपलब्धिचिन्ता) भावान्तरं कपालादिकं तदा तस्य मुद्गरादिहेतुतेष्यत एव । तदुत्पादेपि घटस्य न किञ्चिदिति प्राग्वदुपलब्ध्यादिप्रसङ्गः। तस्मादभावं करोति.भावं न करोतीति स्यात् । तथा चाकर्तुरहेतुतैव । तस्माद् विनाशहेतोर'योगात् एव विनाशः स्वभावतः स्वहेतोर्भवति अस्मादिति' भावो हेतुः । यत्र नाम विनाशो भवतीति मुद्गरात्. कपालोत्पत्तौ लोकाभिमानस्तत्र विनाशकायोगात् स्वहेतोरेव विनश्वरस्वभावतयोत्पत्तेद्वितीये क्षणे न भवतीति वक्तव्यं। तस्मादहेतुत्वव्यवस्थानादन्यत्रापि यत्र विसदृशानुत्पत्त्या विनाशोत्पत्त्यभिमानो नास्ति तत्रापि स्वभावतः स्वहेतोरेव विनश्यतीति विनाश एकक्षणस्थायी भावो जायते।
तथाविधं च भावमात्रानुरोधिनि विनाशे सत्वं हेतुरव्यभिचारः कार्यस्य कारणे तदधीनत्वादित्युक्तं । तदेवाह।
. या काचिद् भावविषयाऽनुमितिर्द्विविधैव सा ॥१९॥ . स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयोः। . या काचि व् भावविषयानुमितिः सा द्विविधैव कार्यभावाभ्यां हेतुभ्यां कारणव्यापकविषया भवन्ती तयोः कार्यस्वभावयोः एव स्वसाध्ये सम्बन्धस्य नियमात्। अन्यस्य तु साध्येऽनापत्तेरतदात्मत्वाच्च नाव्यभिचारनियम:।..
(२) अनुपलब्धिचिन्ता
क, अनुपलब्धेः प्रामाण्यम् अनुपलब्धेरप्युपलब्धिनिवृत्तिमात्रलक्षणायाः प्रामाण्यमाख्यातुमाह ।
प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने ॥१९॥
प्रवर्तितव्यं नेत्युक्ताऽनुपलब्धेः प्रमाणता । सज्ज्ञानशब्दव्यवहाराणांप्रवृत्तेईतिपूर्वकत्वात् तस्या बुद्धे र्भावानुपलम्भने कारणाभावात् प्रवर्तितव्यं नेति सामर्थ्यात् सिध्यति (1) न हि कारणाभावं कार्य युक्त। अतोऽनुपलब्धरुपलब्धिनिवृत्तिरूपायाः प्रवृत्तिनिषेधे साध्ये प्रमाणतोक्ता चा ये ण। न पिशाचादिकं घटादिकं सदिति वक्तव्यमनुपलब्धेरिति सद्व्यवहारप्रतिषेधमात्रं साध्यते न त्वसत्त्वव्यवहारः।
'स्वभावमात्रभावात्। हेतुनिरपेक्षत्वात्। । अत्र द्वौ वस्तुसाधनाविति प्रागुक्तमुपसंहरति। विधि। 'तस्य प्रवृत्तिविषयस्य भावस्यानुपलम्भने प्रत्यक्षानुमानाभ्यां प्रेक्षावता।