________________
३५६
प्र० वा० वृत्तौ (३ परिच्छेदः)
विनाशस्य स्वभावाद् वस्तुसत्तामात्रेणानुबन्धिता ' ।
कस्मादेवमित्याह ।
सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ १९३॥ बाहुल्येपीति चेत् तस्य हेतोः कचिदसम्भवः ।
सापेक्षाणां भावानां हि यस्मादवश्यंभाविता नेक्ष्यते रागस्येव वाससि । ततश्च कश्चिद् घटो न विनश्येदपि । विनाशकानां हेतूनां बाहुल्यादवश्यं इति चेत् । बाहुल्येपि तस्य नाशकस्य हेतोः क्वचिद् घटादावसम्भवः स्यात् । तद्वया7ob घातकानामपि' बाहुल्यात् ।
३
एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥१९४॥ सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ।
एतेन नाश" हेतूनां प्रतिरोधसम्भवेन हेतु " मन्नाशवादिनां मतेन नाशहेतुनां मुद्गरादीनां सर्व्वेषां नाशे कार्येऽनुमापयितव्ये व्यभिचारित्वमुक्तं बोद्धव्यं । कार्याव्यवस्थितेः । विनाशहेतोर्विनाशस्योत्पत्तिनियमाभावात् ।
कथं पुनव्वनाशस्याहेतुतेत्याह ।
असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः || १९५|| यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः ।
असामर्थ्याच्च तद्धेतोव्विनश्वरस्य वा भावस्य विनाशः क्रियते नाशहेतुना । तत्र विनश्वरस्य स्वयमेव विनाशादलं नाशहेतुना । अविनश्वरस्य नाशं कर्तुं न कश्चित् समर्थः। च शब्दात् क्रिया' प्रतिषेषः स्यात् । तथा ह्यभावो यदि पर्युदासो
·
" भावस्तावदित्यादिना निर्हेतुकत्वे सिद्धे स्वरसते (1) निवर्त्तमाने घटे मुबुगरादिसहाये कपालजनके सदृशक्षणानारम्भान्मन्दमतीनां सहेतुत्वावसायो मुद्गराच्छेदात् संतानस्य न प्रतीतिबाधापि ।
२ नित्योपि स्यात् कश्चित् ।
* सर्व्वशसत्वे तु न दोषो यतः यदुपदिश्यते तज्ज्ञानपूव्वं यथान्यत् उपविश्यते चतुरार्यसस्यं स ज्ञानी सर्व्ववित्
# लिङ्गत्वेनोपात्तानां ।
ये यद्भावं प्रत्यनपेक्षास्ते तद्द्भावनियता यथाऽसम्भवत्प्रतिबन्धान्त्या
सामग्री कार्योत्पादनेऽन्यानपेक्षश्च कृतको विनाशे इति स्वभावहेतुः ।
- कारकत्वं ।