________________
शब्दचिन्ता सत्तायां साधनमचेतनत्वादीष्टं सद्भावधर्मोऽभावधर्म उभय धर्मो वा भवेत्। तत्र साधनात् प्रागसिद्ध भावे भावधर्मो नास्तीत्यसिद्धासौ। उभयाबयो भावाभावधर्मश्च व्यभिचार्यनै कान्तिकः। न ह्यभयधर्म एकान्तेनकसत्ता गमयति। अमूर्तत्वमिव वस्तुतां । अभावस्य तु धर्मो विरुद्धोऽसत्त्वसाधनात्। ततस्त्रिविधदोषदुष्टत्वात् साधनस्य सा सत्ता कथं साध्यते।
• साधनपक्षेतु सत्ता मिणि सिद्धत्वान्नासिद्धा'। अनित्यताव्याप्तिप्राप्तेः विरोधव्यभिचारौ चापास्तौ। तस्माद् ।
सिद्धः स्वभावो गमकोऽतो गम्यस्तस्य व्यापकः॥१९१॥
सिद्धः स्वभावनियतः स्वनिवृत्तौ निवर्तकः। व्याप्यस्वभावः साध्यात्मतया सिद्धो (निश्चितो) गमकः। तस्य व्याप्यस्य व्यापकः स्वभावः सिद्धो गम्यः। व्यापकस्य तत्र भाव एव । व्याप्यस्य च तत्रैव भाव इत्युभयधर्मरूपायां व्याप्तेः सिद्धत्वात्। ___अतश्चायं ' व्यापकः स्वनिवृत्तौ तस्य व्याप्यस्य निवर्तकः। अनेन साधये-- वैषयंप्रयोगाबुद्दिष्टौ।
(१) निर्हेतुकविनाशः उदाहरणमाह।
अनित्यत्वे यथा कार्यमकार्य वाऽविनाशिनि ॥१९२॥
अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता। अनित्यत्वे साध्ये कार्य हेतुर्यथा यत् कृतकं तदनित्यं तथा घटः कृतकश्च शब्द इति साधर्म्यप्रयोगः। अकार्यमकार्यस्वभावो वाऽविनाशिनि नाशाभाव इति। अनित्यत्वनिवृत्तौ कृतकत्वनिवृत्तिर्यथाकाशे कृतकश्च शब्द इति वैधर्म्यप्रयोगः। कथं पुनर्गम्यते सत्त्वमात्रानुबन्धिनी नश्वरतेत्याह (1) अहेतुत्वात् अहेतुकृतत्वाद्
यो भावस्य धर्मः स्वभावः स कथं न भावस्य । २ प्रसङ्गस्याश्रितत्वावत्र मूर्तनिवृत्तिमात्र भावे विज्ञानेपि निरूपाल्पीति विपक्षादव्यावृत्तेरगमकं।
हेतुसिद्धि स्वीकृत्यानेकान्तविरुद्धतोक्तिरिहासिद्धावभावात्। ४ यत् किञ्चित् साधनमुपादीयते तस्य । 'निश्चयात्। गम्यगमकत्वमुक्त्वा निवर्त्यनिवर्तकमाह। 'कृतकत्वं। 'व्याप्तिविषयं प्रमाणं विपक्षे बाधकमाह पृष्टः परेण।