________________
प्र० वा. वृत्तौ (३ परिच्छेदः) सिविलक्षणः सांख्य स्य ' सिद्धः स्यात् (1) सत्वमात्रविशेषणस्य धर्मिणः साधनात्। मनिषिद्धञ्च तादृशं साध्यं भेदानां सत्वस्येष्टत्वात् ॥
उपात्तभेदे साध्येस्मिन् भवेद्धतुरनन्वयः॥१८८॥ ___ सत्तायां तेन साध्यायां विशेषः साधितो भवेत् । अथैकसुखाद्यात्मकमित्यप्रधानविशेष (ण)विशेषितं सत्त्वं साध्यं । तदोपात्तभेदे साध्येऽस्मिन् । सत्त्वे भवेद्धेतुरनन्वयोऽन्वयरहितः प्रधानस्य क्वचिदन्वयासिद्धेः (1) सामान्यमेव ' पुनः किन्न साध्यते। सामान्ये साध्ये सिद्धसाधनदोलात्। सत्तायां साध्यायामिष्टायां तेन वादिना विशेष एवाभिमतः साधितो भवेत् ।
अत्र चानन्वयदोष उक्तः। अस्माकन्तु (1)
अपरामृष्टतद्रेदे वस्तुमात्रे तु साधने ॥१८९॥
तन्मात्रव्यापिनः साध्यस्यान्वयों न विहन्यते । अपरामष्टोऽनध्यवसितः तस्य वस्तुनो भेदो यस्मिन् तस्मिन् वस्तुमात्रे 'तु साधने तन्मात्रव्यापिनः साध्यस्यानित्यत्वस्यान्वयो न विहन्यतेऽतः साधनत्वं , सत्वस्य युक्तं। ...
ननु धूमादग्नि साधनैपि समानमेतत्। तथा हि यदि धूमादग्निसत्तामात्र साध्यते तदा सिद्धसाध्यता। अय पर्वतेऽस्तीति साध्यते तदाऽन्वयासिद्धिः । नैतदस्ति। न हि पक्षायोगव्यवच्छेदस्तमग्निं विशेषी करोति। अनग्निव्यावृत्तस्य साधनात् । सत्तासाधने तु तद् (सत्त्व) विशेष एव प्रधानाख्यः साध्यः । किञ्च (1) १ नासिद्धे भावधर्मोस्ति व्यभिचार्युभयाश्रयः ॥१९०॥ धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम्।
गण्यारिय॑तो नित्यः सिद्धसाध्यतोक्ता - निरन्वयविनाशाभावाग्नित्ये त्रिगुणत्वात् सुखदुःखमोहात्मके कर्तृत्वादियुक्ते धूमाग्न्योस्त्वयोगव्यवच्छेदेन व्याप्तिः प्रवेशनिष्ठताऽसिद्धा साध्येति न दोषः। -वोषमाह। सत्तायाः। .
पत्र मस्तत्राग्निरित्यग्निमात्रेण व्याप्तीग्निनान्तरीयो धूमः सिद्धो यत्रव दृश्यते तत्रवाग्निर्बुद्धिं जनयति तत्र व साध्यनिर्देशेन न किञ्चित् ।
पक्षोग्नेन विशेष