SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ शब्दचिन्ता 341 क्वचिदुपाधिभेदो विशेषणविशेषो भिन्नो ऽभिन्नो वा तदपेक्षः । केवलो विशेषणरहितः शुद्धोथवा साध्यसिष्यर्थमुच्यते । नाशे कार्यत्वसत्ववत् । नाशे साध्ये कार्यत्वं भिन्नविशेषणापेक्षः स्वभावः तज्जन्मन्यपेक्षितप' रव्यापारस्यकार्यत्वात् । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः । उत्पत्तिमत्वं पुनरभिन्न-केवलं नाश विशेषणमुत्पत्त्या स्वभावभूतया कल्पितभेदया विशेषणात् । सत्त्वन्तु एव साध्ये स्वभावो विशेषणानुपादानात् । सत्तास्वभावो हेतुश्चेत् सा सत्ता साध्यते कथम् ॥ १८६॥ भेदेनानन्वयात सोयं व्याहतो हेतुसाध्ययोः । ननु स तास्वभावो हेतुश्चेदभिमतः सामान्यरूपो विशेषस्यानन्वयात् । तदा सा सत्ता प्रधानाख्या सर्व्वव्यक्तिव्यापिनी कथं साध्यतेऽचे "तनत्वादिहेतोः । अथ भेदानां परस्परमत्यन्तं भेवेनानन्वयान्न साध्यते तदा सोयं भेदानामनन्वयो हि हेतुसाध्ययोर्व्याहतः । अर्थान्वयिनः साध्यता न युक्ता तथा साघनतापि । तत् कथं सत्त्वं साधनं (i) तस्मात् सत्ता सामान्यं साध्यञ्च साधनञ्चानन्वयात् स्यात् । С अत्राह । भावपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥ १८७॥ न कश्चिदर्थः सिद्धः स्यादनिषिद्धश्च तादृशम् । भावः सत्ता सा उपादानं विशेषणं यस्य स भावोपादानः । स एव केवलस्त 7 मात्रं तस्मिन् साध्ये सामान्यधर्मिणि सामान्यधर्मवति न कश्चिदर्थः प्रधान १ यद्यपि कृतके सत्त्वमस्ति तथापि हेतुकृतोयं कृतक एतन्मात्रम्बिवक्षितं न सामर्थ्यं । २ स्थानकारणाविप्रत्यय भेवित्वपुरुषप्रयत्नजत्वं स्वभावभूतधर्मभेदेनोत्पत्ति मत्त्वं । * अनित्ये कृतकमुपाधिभेदापेक्षं सस्वमनपेक्षं । सांख्यस्यास्ति प्रधानमिति साध्यं । 8 सत्वे " अथ सत्तायाः सामान्ये साध्ये सिद्धसाध्यताऽतो विशेषः साध्यः तत्रान्वयात् साध्यशून्यो दृष्टान्तोतो न सत्ता । • सत्त्वहेतावसाध्यशून्यो दृष्टान्तविशेषाणां दुष्टो हेतौ साध्यं च । * इति सांख्योक्तौ बौद्धो दोषमाह । e असिद्धत्वात् । ४५
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy