________________
३५२
किञ्च (1)
A
प्र० वा० वृत्तौ (३ परिच्छेदः)
सर्वात्मत्वे च सर्व्वेषां भिन्नौ स्यातां न धीध्वनी ॥१८३॥ भेदसंहारवादस्य तदभेदादसम्भवः ।
सर्व्वेषां भावानां सर्व्वात्मत्वे च भिन्नौ धीध्वनी न स्यातामेकविषयत्वात् । तयोर्धीध्वन्योरभेदात् भेदसंहारवादस्यासम्भवः स्यात् । उष्ट्राद् भिन्नं दधीति भेदव्यवहारो दध्येवोष्ट्र इति च तदात्मतोपसंहारव्यवहारश्च बुद्धिशब्दयोरभेदान्न स्यात् । न हि बुद्धिशब्दयोर्भेदव्यवहारो युक्तः । तन्निबन्धनत्वात् तस्य । तदभावेपि भावे चातिप्रसङ्गात् । भेदप्रतीत्योर्भावात् तादात्म्योपसंहारश्च कथं तदधीनत्वात् तस्य ।
३. शब्दचिन्ता
द्रव्याभावादभावस्य शब्दा रूपाभिधायिनः ॥ १८४॥ नाशङ्क्या एव सिद्धास्तेऽतोव्यवच्छेदवाचकाः ।
3
उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वं । येप्यभावादिशब्दा अभावस्य स्वरूपाभावात् तेपि रूपाभिधायिनो वस्तुवाचका नाशङक्या एव । सम्भवद् वस्तु वाच्यं स्यान्न वेति चिन्त्येतापि । ' यत्र तु वस्त्वेव नास्ति तत्र का चिन्ता । अतस्तेऽभावादिशब्दा व्यवच्छेदस्य भावव्यावृत्तेर्व्वाचकाः सिद्धाः । तस्मात् स्थितमेतत् स्वभावहेतोर्व्वस्तुतः साध्यात्मकत्वेपि न प्रतिज्ञार्थैकदेशो हेतुः । साध्यसाधनधर्मिध्वनिविकल्पानां भिन्न व्यवच्छेदविषयत्वात्। न च साध्यादीनां कल्पितत्वं भेदस्य कल्पनात् । शब्दत्वेन निश्चितो धर्मी सत्त्वेन च हेतु: ( 1 ) क्षणिकत्वेन निश्चितः साध्यः । इत्यकल्पिता एव धर्म्यादय इत्युक्तं । स चायं स्वभावो हेतुः ॥
उपाधिभेदापेक्षो वा स्वभावः केवलोऽथवा ॥१८५॥ उच्यते साध्यसिध्यर्थं नाशे कार्यत्वसत्त्ववत् ।
' यथाऽविषयशब्दाभावाग्राहकत्वादपोहविषयाः सिद्धा इति दृष्टान्तेन परः साध्यस्तथाभावविषया अप्यपोहविषयाभावस्वरूपाग्राहकत्वात् (1) केवलमध्यवसायात्तु तद्विषयत्वं ।
२ कारणैर्न कृत इति द्वितीयादिक्षणस्थायीति शब्दे भिन्नभिन्नारोपव्यवच्छेदकत्वेन । ३ * वस्तुविषयत्वे स्यात् प्रतिज्ञार्थैकदेशता ।