SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सामान्यचिन्ता ३५१ विजातीयाद् व्यावृत्या च सा समानताऽस्त्येव। स्वस्वभावनियतन्तु स्वलक्षणं वस्तु नान्वेति सर्वत्र प्रवृत्त्यादिप्रसङगतः। अग्निरपि श (=स) लिल' स्वभाव एवेति श (=स) लिलार्थी तत्रापि प्रवर्तेत । तस्मात् स्थितमेतत् (1) न किञ्चित् किमप्यन्वेतीति। ग. जैनमतनिरासः एतेनैव यदाह्रीकाः किमप्ययुक्तमाकुलम् ॥१८॥ प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् । एतेन सांख्य मतनिराकरणेनैवाहीका दि ग म्ब रा यत् " स्यादुष्ट्रो दधि वस्तुत्वात्। न वा स्यादुष्ट्रो' विशेषरूपतये" ति । किमप्ययुक्ततया हेयोपादेयविषयापरिनिष्ठानादाकुलं प्रलपन्ति तदपि प्रतिक्षिप्तमेकान्तस्य भेदस्य सम्भवात् । आकुलत्वमेवाख्यातुमाह । सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥१८॥ चोदितो "दधि खादे" ति किमुष्टं नाभिधावति । सर्वस्य वस्तुन उभयरूपत्वे' स्वपररूपत्वे सति तद्विशेषस्य दध्येव दधिनोष्ट्र 69b उष्ट्र एवोष्ट्रो न दधीत्यस्य भेदस्य निराकृतेः । दधि खादेति चोदितो नियोज्यः किमुष्टं प्रति नाभिधावति । अथास्त्यतिशयः कश्चिद् येन भेदेन वर्तते ॥१८२॥ स एव विशेषोऽन्यत्र नास्तीत्यनुभयं परम् । अथास्ति दध्नः सकाशाद् उष्ट्रस्यातिशयो विशेषः कश्चिद् येन विशेषेण चोदितेन भेदेन प्रतिनियमेन दधिशब्दाद् दध्न्येव उष्ट्रशब्दादुष्ट्र एव प्रवर्तते (1) एवन्तहि स विशेष एवान्यत्रासम्भवी उष्ट्रो विशेषो दधिलक्षणोऽन्यत्र वस्तुनि नास्तीति सर्वं वस्त्वनुभयं न स्वपररूपं किन्तु परमेव परस्मात् । १ अथ स्वलक्षणमन्वेष्यतीति किं कल्पितव्यावृत्त्यापीत्यपि न परस्परं भेदात्। यदि घटः पटे स्यादुदकार्थी पटेपि प्रवत्तत न चास्तीति न प्रवृत्त्यादिना तुल्योत्पत्तिनिरोधादि। सामान्यविशेषयोर्वस्तुत एकत्वात् कृतकानित्यत्वानि वा व्यभिचारो व्यावृत्तस्वलक्षणस्यैव सामान्यत्वात् बौद्ध । ३ सर्वः सर्वस्वभावो न च सर्वस्वभावः । ४ दध्यवस्थायां। दध्यादेष्ट्रादिषु तादात्म्यानुगमात्। स्वरूपभेदवल्लक्षणभेदश्चेत् न च द्रव्यत्वं द्रव्यादिव्यतिरिक्तं भावि ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy