________________
३५०
प्र० वा० वृत्तौ (३ परिच्छेदः)
न सर्व्वात्मनाऽभेदस्तयोः सामान्यविशेषोरपि कथञ्चिद् भेदो भवेद् यदि (1) अन्यथा सामान्यविशेषभावानुपपत्तिः । अत्राह । येनात्मना स्वरूपेण साधारणेन चासाधारणेन च तयोः सामान्यविशेषयोर्भेदः सामान्यं विशेष इत्येतद् व्यवस्थाप्यते। तेनात्मना साधारणासाधारणेन यदि भेदस्तदा भेद एव तयोः स्यात् भिन्नलक्षणत्वात् ।
तथा च स्यान्निःसामान्य विशेषता ॥ १७७॥ भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् ।
तथा च निःसामान्यविशेषता सामान्यविशेषरूपताऽभावः सामान्यवि - शेषयोरभिमतयोः स्यात् । यद्वद् घटादीनां विशेषाणां परस्परं न सामान्यविशेषता । विशेषः स्व ( लक्षण ) रूपमनुगामि सामान्यं तदेवानुगामि विशेष उच्यते (।) यदि तु तयोर्भेद एव न सामान्यविशेषभावः स्यात् ।
यमात्मानं पुरस्कृत्य पुरुषोयं प्रवर्तते ॥ १७८ ॥ तत्साध्यफलवाव्छावान् भेदाभेदौ तदाश्रयौ । चिन्त्यते स्वात्मना भेदः ;
अपि चायं व्यवहारी पुरुषो यमर्थस्यात्मानं स्वभावं पुरस्कृत्य प्रवृत्तिविषयत्वेनाग्रहं कृत्वा तत्साध्यफलवाञ्छावान् अर्थसाध्यफलसमीहायुक्तः सन "प्रवर्त्तते (1) तदाश्रयौ तदर्थविषयौ भेदाभेदौ शास्त्रकारैश्चिन्त्येते । न त्वर्थक्रियानुपयुक्तसामान्यविषय (1) तेषाञ्चार्थक्रियाकारिणां पुरुषप्रवृत्तिविषयाणामर्थानां स्वात्मना स्वरूपेण भेदः ।
कथं तर्ह्येकबुद्धिशब्दविषयतेत्याह ।
अस्त्येव
व्यावृत्त्या च समानता ॥ १७९ ॥ वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ।
१ सामान्यं विशेष इति भेदस्थापनात् ।
* भेदो निःसामान्यः सामान्यं निव्विशेषः ।
३ अजन्यजनकत्वेन सम्बन्धाभावात् ।
४ दिगम्बरस्योर्ध्वतासामान्यं सांख्यस्य तिर्यक् एकदोषेण (देशिनं ) निरस्य
तिर्यक्सामान्यं पुनराह 1
* अर्थार्थिनः सामान्यस्य भेदाभेदचिन्तया न कि (ञ्चि) दनर्थत्वात् ।
आत्यन्तिकोस्त्येव ।