________________
सामान्यचिन्ता
३४९ अथ' कारकैकस्वभावानुगमात् सहकारिणां पर्यायेण कर्तृत्वं। स पर्यायस्तस्यान्वयिन एकस्य २ वस्तुनः किं (कस्मात्) युक्तः। न ह्येकं वस्तु कार्य कुर्चत पर्यायेण न करोतीति युक्तं व्यपदेष्टुं तेनैव क्रियमाणत्वात्। सहकारिणां बहूनां पर्यायेण क्रिया सम्भाव्यते। तेषु चैकस्य कारक रूपमन्यत्र नास्तीति न ते कुर्युः । सर्वेषाञ्च स्वहेतुवलायात एककार्यकारकः स्वभावोऽस्माभिरिव सां ख्यै र्नेष्यते॥ किञ्च।
अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि ॥१७५॥ तद्वति सामान्यविशेषवति वस्तुनि स्वीक्रियमाणेऽत्यन्तमेकान्तेन सामान्यविशेषयोर्भेदाभेदौ स्यातां । सामान्यस्वरूपत्वाद् भेदस्य सामान्यमेव भवेन्न भेदो भेदात्मत्वात् सामान्यस्य भेद एव भवेत् सामान्यं । (१७५) ___ अथ तयोः कथञ्चन' भेदोप्यस्तीति चेदाह (1) __अन्योन्यं वा तयोर्भेदः सदृशासदृशात्मनोः ।
तयोः सामान्यविशेषयोः सदृशासदृशात्मनोः ६ साधारणासाधारणस्वरूपयोरन्योन्यं भेद एव वा भवेत्। न कथञ्चिदेकत्वं । ___ एतदेव स्फुटयितुं पूर्वपक्षयति (1)
तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥१७६॥ भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना । भेद एव;
यवबीजञ्चे (त्) शाल्यङकुरकारणं पर्यायेण यदा तच्छालिबीजत्वेन परिणमेत् । प्रधानशक्त्यधिष्ठितभेदपरिणामे प्रधानशक्तेर्भेदत्वेन परिणामे वा सर्वत्र सर्वोपयोगात्।
२ शालिबीजस्य यवबीजत्वेन परिणामो न युक्त इत्यर्थः भेदाधिष्ठानत्वात् पर्यायस्य ।
परिणाम निरस्याभिन्न भिन्न भिन्नाभिन्नं सर्वासु चोत्तरोत्तरावस्थास्वनुयायित्वादूर्ध्ववृत्तिर्वा समं सर्वासु व्यक्तिष्वनुयायित्वात् तिर्यग्वृत्ति वा सामान्य सांख्यमीमांसकनैयायिकादेर्दूषयितुमाह किञ्चेति।
४ निरस्तमभिन्नं। ५ स्वभावाभेदेपि लक्षणभेदात् अवस्थायाः। 'अनुगतव्यावृत्तयोरश्लेषात्।