________________
.१२
प्र० वा. वृत्तौ (१ परिच्छेदः) स्थित्वा प्रवृत्ति संस्थानविशेषाक्रियार्थक्रियादिषु। साधनेषूपादानाद्यभिज्ञबुद्धिमत्पूर्वकत्वे साध्ये इष्टसिद्धिरस्माकं। वयमपि साधारणासाधारणचेतना लक्षणकर्मनिर्मितं जगद्विचित्रमिच्छामः(1) तत्साधयता च परेण साहाय्यकमनुष्ठितं। येन साध्यगतेन विशेषेण विना धर्मिणि लिङ्गमनुपपन्नं तस्यैवाधिकरणसिद्धान्तेन प्रतीतिर्यथा पर्वतत्तिनो धूमावह्नः पर्च'तवत्तित्वस्य (1) न ह्यन्यदेशस्थेनाग्निना जन्यमानस्य धूमस्य पर्वतवत्तित्वमुपपद्यते (1) नत्वेवं नित्यत्वसर्वज्ञत्वव्यापित्वादि विना चेतनस्य तनुभुवनादिगतं स्थित्वा प्रवृत्यादिकमनुपपन्नं(1) नित्यत्वादिविपर्यययोगिनापि चेतनेन क्रियमाणं तद् घटत एव। ... ननूक्तमेवानित्याव्यापिनः सर्व्वदेशकालवत्ति कार्यमकार्य असर्वविदश्च सर्वोपादानाद्यभिज्ञता नास्तीत्यादिना। सत्यमुक्तमयुक्तन्तूक्तं कर्तुरेकत्वासिद्धः । एकस्य कर्तुरनेकदेशकालं कायं कुर्वाणस्य तदुपादानादिकं जानानस्य नित्यत्वादिकमन्तरेण स्थित्वा प्रवृत्त्यादि नोपपद्यत इति स्यादपि तादृशस्याधिकरणसिद्धान्तेन प्रतिपत्तिः। अनेकेनापि तु नानादेशकालवतिना स्वस्वकार्यस्योपादा, नादिजानता क्रियमाणं स्थित्वा प्रवृत्त्यादिसङ्गतमेवात एवैकत्वस्यापि तत एव सिद्धिरयुक्ताऽनेकस्यापि हेतुत्वयोगात्। पक्षायो गव्यवच्छेद एव तु साध्यस्याधिः करणसिद्धान्तेन सिध्यतु न तु तदधिको वह्नरिव चान्दनत्वादिः॥ __नन्वनेक एव ते चेतनावन्तोभिमताः (0) न चोपादानादिकं तन्वादीनां ते जानते। नापि तत्कर्तृत्वमात्मनो मन्यन्ते तत्कथममी कर्तारः। अथाधिपत्यमात्रे*षां कर्तृत्वं न तूपकरणाद्यायोजनेन व्यापारेण यथा चन्द्रस्य चन्द्रकान्तद्रुतौ। तेनोपादानाभिज्ञता कर्तृत्वाभि मानश्च नैषां। एवन्तर्युपादानाद्यभिज्ञचेलनपूर्वकत्वे, साध्ये नेष्ट सिद्धिवक्तव्या। यद्येवं भवत एव सूक्ष्मेक्षिका, तदा चेतनापूर्वकत्वमात्रं साधय, दृष्टान्ते च कुम्भकारत्ववत् सदप्युपादानाद्यभिज्ञत्वमप्रयोजकं मन्यस्व ॥ __ सत्कथं परिहर्तव्यमिति चेत्(।) तत्कि' कुम्भकारत्वमपरिहार्य। 'अप्रयोजकत्वाद् त्यज्यत इति चेत् उपादानाद्यभिज्ञत्वेपि समानमेतत् (1) उपादानादिकमजानतोपि बुद्धिमतोऽनेकस्याधिष्ठानमात्रेणापि कार्याणामुत्पत्तियोगात्।
मसितमय प्राप्तुकामा कायवागल्यापारसहाया बुद्धिः प्रवृत्तिः। बौखेन। ईश्वराविकं विशेषं त्यक्त्वा सामान्येन चेतनामात्रपूर्वरवं बौखेनेष्टसिदिल्लता न युक्ता।
ज] प्राह। साध्ये। । ईश्वरं साधयतः • कुम्मायेत् युज्यते। ईश्वरोप्यत्र न प्रयोजको दृष्टः इति त्यज्यतां । समयूरपनियोपादानं मयूरो न वेत्यर्थे च तदषिष्ठानाच्चन्द्रिकोत्पद्यते। .