________________
ईश्वरदूषणम्
नित्यस्य सर्व्वदाऽविशिष्टस्वभावस्य परैः सहकारिभिः कथञ्चिन्नोपकार्यत्वात् क्व तदपेक्षा। ततः सर्व्वज्ञानानि सकृदेव कुर्य्यादित्यवार्य्यः प्रसङ्गः ।
(ख) अनित्यस्याप्यप्रमाणता
स्या' देतत् (1) सन्तानविशेषान्निसर्गसिद्धापरापरक्षणात्मकं साधनापेक्षा शून्यमनित्यमेव प्रमाणं भविष्यतीत्याह ।
अनित्येप्यप्रमाणता ॥११॥ अनित्येपि अपिशब्दान्नित्येप्यप्रमाणता सांघनाभाव इत्यर्थः । (११)
ननु सन्त्येव साघनानि यथा स्थित्वा प्रवृत्तेः संस्थानविशेषादर्थक्रियासाघनत्वात्— कार्यत्वादेश्च विमत्यधिकरणानि तनुभुवनकर * णादीन्युपादानाद्यभिज्ञबुद्धिमत्पूर्व्वं - काणि तुर्य्यादिवत् प्रासादादिवत् वास्यादिवत् घटादिवच्चे ' त्येवमादीनि स्थित्वा प्रवृत्त्यादयः । तुरीतन्त्वादिषूपादानाद्यभिज्ञबुद्धिमत्पूर्व्वकत्वमात्रेणोपलब्धव्याप्तयोधिकरणसिद्धान्तन्यायेन नित्यव्यापिसर्व्वज्ञनित्यबुद्धयाश्रयात्मविशेषविशिष्टमेव - पक्षे साध्यमुपनयन्ति धूम इव पर्वतवर्त्तिनं दहनं । न ह्यनित्येनाव्यापिना वा नानादेशकालकार्यजातं शक्यक्रियं । नापि सर्व्वस्य कार्यस्योपादानकारणान्यसर्व्वविद् वेदितुं समर्थः । नाप्यनित्यया बुद्धयाऽतीतानागतकालवत्ति वस्तुजातं ज्ञातुं शक्यं (i) तद्वेदनाच्च सर्व्ववित् (1) न चैते हेतवोऽसिद्धा धर्मिणि सत्त्वनिश्चयात् । न च विरुद्धाः सपक्षे सत्त्वात्(i) नानैकान्तिकाः साध्यसाधनयोर्व्याप्तिनिश्चयात् । न च कालात्ययापदिष्टाः साध्यसाधनबाघनाभावात् (1) नापि प्रकरणसमा विपर्ययसाधकत्व भावादिति । अत्राह ।
ख. ईश्वरदूषणम्
(क) सन्निवेशमात्रान्नेश्वरानुमानम्
११
स्थित्वा प्रवृत्तिः संस्थानविशेषार्थक्रियादिषु । इष्टसिद्धिः ;
' यो यत्साधनमविपरीतमनुतिष्ठति तस्य तत्प्राप्तिर्भवति । यथातुरस्यारोग्यसाधनमविपरीतमनुतिष्ठतः । * ईश्वरज्ञानं ।
* इन्द्रियशरीरादीनां कालान्तरं स्थित्वा प्रवृत्तेः कार्यहेतुषु । * वैधर्म्येणात्यन्ताभावः ।
* यत्प्रसिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः । ( न्या० सू० १।१।३० ) यथा सांख्यस्यान्तराभवनिषेधे आत्मैव सञ्चरत्यशरीर इति अपरीक्षिताभ्युपगमात् ॥