________________
१०
प्र० वा० वृत्तौ (१ परिच्छेदः)
भूतशब्दनिर्देशोऽभूतस्य नित्यस्य निवृत्त्यर्थं नित्यं प्रमाणं नास्तीत्यर्थः । साधनापेक्षा ततो युक्तां प्रमाणता ॥९॥
ततः साधनापेक्षा प्रमाणता युक्ता भगवतश्च प्रामाण्यसाधनं वक्ष्यमाणं (९) ।
(४) ईश्वरादेरप्रामाण्यम्
क. नित्यानित्ययोरप्रमाणता
(क) नित्यस्याप्रमाणता
नित्यं प्रमाणं नैवास्ति प्रामाण्यात्;
कस्मात् पुनर्नित्यं प्रमाणं नैवास्ति (1) आ ह वस्तुनोर्थक्रियाकारिणः सतो गर्ज्ञानस्य प्रामाण्याशास्ति नित्यं प्रमाणं । अत्रैव कारणमाह ।
वस्तुसंगतेः ।
ज्ञेयानित्यतया तस्या अधौव्यात् ;
शेयस्य वस्तुनोऽर्थक्रियाका 'रित्वेनानित्यत्वात् तस्या
वस्तुसङ्गतेरपि
तज्जन्याया (? अ) प्रौव्यादनित्यत्वात् ।
स्यादेतद् (1) अनित्यविषयमनित्यमेव ज्ञानं केवलं यस्य तत् ज्ञानं स ज्ञाता नित्यो भविष्यतीत्याह ( 1 )
क्रमजन्मनां ॥१०॥
नित्यादुत्पत्तिविश्लेषादपेक्षाया श्रयोगतः ।
ज्ञानस्य नित्यात् ज्ञातुरुत्पत्तेव्वि श्लेषात् । नित्यं हि सदैकरूपं यदि क्रमजन्मनां ज्ञानानामर्जनसमर्थं सकृदेव तानि कुर्य्यात् । अथ समर्थमपि नित्यं क्रमिसहकार्य्यपेक्षया क्रमेण करोति तदयुक्तमपेक्षाया अयोगात् ।
कस्मात् सहकार्यपेक्षा' न युक्तेत्याह (1), कथञ्चिन्नोपकार्यत्वात् ;
" यदा भगवज्ज्ञानमुत्पन्नं तदा नाकस्मिकमिति स्वकारणं सूचयतीति अनुष्ठितप्रामाण्याविपरीतसाधनश्च भगवानिति स्वभावहेतुः ।
* नित्यमीश्वरं नैयायिकाः प्रमाणमाहुः । आसंसारमेकं प्रतिसत्वं बुद्धि प्रमाणमाहुः सांख्याः । अयोगात्