________________
___सामान्यचिन्ता
३० मिथ्यात्वञ्च सामान्यधियो विषयाभावात् (1) तेन' नाप्यदूषणा ।।
यत्तस्य जनक रूपं ततोन्यो जनकः कथम् ॥१६९॥
भिन्ना विशेषा जनकाः; - 'ननूक्तं यदि भावाः सर्वथा भिन्नास्तदा यत्तस्य बीजस्य जनकं मन तदन्यस्य क्षित्यादेरिति ततोन्यो जनकः कथमिति। अत्रोत्तरमप्यु क्तमभिन्नरूपा. न्वयव्यतिरेकानुविधानाभावाद् भिन्ना' विशेषा एव जनकास्तदन्वयव्यतिरेकानुविधानात् कार्यस्य सर्व एव ते तत्कार्यस्योत्पादकतयोत्पन्नास्तदुत्पादयन्ति।
अप्यभेदोपि तेषु चेत् । - - - तेन तेऽजनकाः प्रोक्ताः; . तेषु विशेषेष्वन्वयिना रूपेणाभेदोप्यस्ति तेनैव ते जनका इति चेत् (1) तेनान्वयिरूपेण ते विशेषा अजनकाः प्रोक्ताः एकत्रापि विशेषे तद्भावात् सहकारिवैफल्यप्रसक्तेः। तदन्वयव्यतिरेकानर्थविधानाद् विशेषस्य विपर्ययाच्चेति । किञ्च (1)
प्रतिभासोपि भेदकः ॥१७ना.. अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयोपरे।
प्रतिभासोप्यनन्यभाग' भेवको विशेषाणामसंकीर्णरूपव्यवस्थापनात्। अपि शब्दादुत्पत्तिस्थितिविताशादयश्च समानाः। ततश्च विशेष एवार्थः पारमार्थिकः। ये त्वपरे सामान्यादयो धर्मास्ते तस्य शेषस्य विजातीयाद् व्यावृत्तयः कल्पिता. अनर्थक्रियाकारिणः ।
१न प्लवत्वेन हेतुना नास्या युक्तदूषणं सामान्यबुद्धी। २वल्यदोषत्वमपनीय प्रकारान्तरेण प्रक्रान्तचोडापनया(या)ह।
३ "एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भव" (३३१६५) इति प्रसाधनं प्रागुक्तं स्मारयति ।
नात्र विरोषोस्ति । "सामान्यान्वयव्यतिरेकाननुविधानादिति नापत्यभिन्नमित्यादिना।
"स्यातां नाशोद्भवो सकृति"त्यादिना (३३१६७) भेवं प्रसाध्य प्रतिमातभेवेनापि भेदमाह।
•प्रतिव्यक्तिभिन्नः।