________________
प्र० वा० वृत्तौ (३ परिच्छेदः) प्रश्ने तदेवोत्तरं। अनादिश्च हेतुफलपरंपरैकरूपानुगमाद् (।) विशेषाणामभेदे' तु 68b स्वीक्रियमाणे सकृदेकस्य नाशोद्भवौ स्यातां (1) विशेषान्तरयोर्यथासंभवं नाशे जन्मनि च तदपरस्य विशेषस्य तदभिन्नरूपतया नाशोद्भवौ स्यातां (1)
भेदोपि तेन नैवं चेद् य एकस्मिन् विनश्यति ॥१६॥
तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः । अथ परस्परं विशेषाणामेकान्तेन नाभेदः (1) किन्तर्हि भेदो विशेषरूपतया। तेन भेदेनैवं सकृन्नाशोद्भवप्रसङ्गो न चेत्। यद्येकस्मिन् विशेषे विनश्यति (1) तिष्ठत्यात्मानुयायी प्रधानाख्यस्तदा स तस्य विशेषस्यात्मा न भवति (1) न हि. यस्मिन् विनश्यति यो न नष्ट: स तस्य' स्वभावो विरुद्धधर्माध्यासलक्षणत्वादभेदस्य । अतः परस्परं सर्वथा भेदान्न स्यात् सामान्यभेदधीः । अन्वयि सामान्यमनन्वयी भेद उच्यते (1) यदा च सामान्यं भेदाद् भिन्नं तदाऽनुगामिव्यक्तिस्वरूपं न सामान्यं (1) न च तदात्मको भेदः। अतस्तद्बुद्धिरपि न भवेत्। ___ नन्वन्यनिवृत्तावपि समानमेतत्। भावे नश्यति अन्यनिवृत्तिनश्यति न वा। यदि नश्यति न स्याद् व्यक्त्यन्तरे तबुद्धिः (1) अथ न नश्यति तदाऽत्यन्तभेदात सामान्यभेदबुद्धिर्न स्यादित्याह ।
निवृत्तेनिःस्वभावत्वात् न स्थानास्थानकल्पना ॥१६८।।
उपसवश्व सामान्यधियस्तेनाप्यदूषणा । निवृत्ते निःस्वभावत्वात् न स्थानास्थानयोः स्थितिनिवृत्त्योः कल्पना युक्ता। कल्पिता ह्यन्यनिवृत्तिः निःस्वभावा सा किं भावाद् भिन्नाभिन्ना वेति न युक्ता कल्पना। न हि शशविषाणं भिन्नमभिन्नम्वेति युक्तं कल्पियितुं । उपप्लवो
१ भिन्नानां कश्चिद्धतुर्नान्यः स्वभावादित्यत्र न किञ्चिद् बाधकं भवतु बाधेत्याह।
२ उपलक्षणमेतत् सूत्रे सर्वत्र सर्वोत्पादिरपि ज्ञेयः। ३ व्यपदेशोपि सर्वं हि वस्तु रूपेण भिद्यते
न परस्परं । तन्मतं सामान्यं सर्वत्र स्थितं विशेषा नश्यन्ति । ४ परस्परसम्बद्धा
'विजातिव्यावृत्तबाह्यं स्वाकाराभेदेनाध्यस्तं शब्दविकल्पविषयमपोहं मुक्त्वाऽन्यनिवृत्तिमात्रे प्राह (दिग्) नागाभिमते वा।
'विकल्पबुद्धयारोपितसामान्येपि विशेषे नश्यतीत्यादिनेत्याह यः सामान्याकारोऽनेकपदार्थाभिन्नः स भ्रान्तो बहिर्वास्ति ।