SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ सामान्यचिन्ता नापैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः ॥१६४॥ एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः । '२ सह' कारिणा मभावेपि बीजसत्वेऽभिन्नं तत् प्रधान कर्तृरूपं नापैति नित्यत्वात् " व्यक्ति" सत्वाच्च । विशेषाः खलु नूनमपायिनो न प्रधानं । एकस्य सहकारिणो विशेषस्यापायेपि फलस्याभावात् । विशेषेभ्यस्तस्य कार्यस्य उद्द्भवो निश्चीयते न प्रधानात् ( 1 ) विशेषस्यान्वयव्यतिरेकानुविधानात् । सामान्यस्य विपर्ययात् । पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥ १६५॥ स च नान्वेति योन्वेति न तस्मात् कार्यसम्भवः । स एव पारमार्थिको भावो योर्थक्रियाक्षमः । स च विशेषोर्थक्रियाक्षमो नान्वेति परस्परं भेदात् (1) योऽन्वेति प्रधानाख्यो भावो न तस्मात् कार्यस्य सम्भवः । ३४५ ३० ननुगमस्तदा विशेषेष्वपि केचिज्जनयन्ति नापर इति कुतोयं ११ विभाग इत्याह । यद्येकरूपा १०३ ८ तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः ॥ १६६॥ स्वभावोयमभेदे तु स्यातां नाशोद्भवौ सकृत् । येनैक' २रूपान्वये सहकारिवैकल्यप्रसङ्गस्तेन कारणेनात्मना स्वरूपेण बीजजलशिलानलादीनां भेदेपि कश्चित् क्षितिश ( ? स ) लिलबीजादिरङकुरस्य हेतुर्न चापरः शिलानलादिः । हि यस्मात् स्वभावोयमङ्कुरजननशक्तः । तदितरश्च प्रमाणदृष्टो बीजादीनां शिलादीनाञ्च नात्र पर्यनुयोगावतारः । कुत उत्पन्न इति चेत्। स्वस्वहेतोः । सोपि कस्मात् तज्जनक इति चेत् । स्वहेतोः ( 1 ) तत्रापि १ एतदेव द्रढयन्नाह । २ सामान्यं । अस्य न विशेषो विशेषेऽभेदहानेः । 8 ' एकस्य अप्यन्ते । ' त्रैगुण्यस्य सर्व्वात्मना सर्व्वत्र सर्वदा सत्त्वात् । व्यक्तिभेदाः । • अत एकव्यक्तिसत्त्वेपि कार्यं स्यान्न चास्त्यतः । पाथपृथिव्यादेरङकुरेण । © एक विशेष स्थितावप्यविकलस्य । १० प्रधानस्य । ११ सर्व्वं सामान्यं निरस्य पृथिव्यादेर्जनकत्वे न कोप्यजनक इत्याशयः । १२ “ एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदत" ( ३।१६५ ) इत्यत्राह । "ज्वरादिशमन” (३।७३) इत्याद्युक्तेप्यधिकार्थं । ४४
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy