________________
३४२
प्र० वा वृत्तौ (३ परिच्छेदः) भेदान्न हेतुः कर्मादि । कर्मापि प्रतिव्यक्त्येकस्यामपि पौर्वापर्येण भिन्न मेव तत्कथं व्यक्तिवदेकाभिधानहेतुः । कर्मसामान्यं हेतुश्चेदाह। अस्य कर्मणो जाति भिन्नाऽभिधानहेतुः। तस्याः कर्मसंश्रयात्। कर्मणि समवेतत्वात् तत्रैवाभिधानहेतुता स्यान्न द्रव्ये।
अथ कर्मसामान्यं कर्मणि सम्बद्धं तच्च द्रव्य इति परम्परया तत्सम्बद्धं तन्निमित्तः शब्दो द्रव्ये वर्तत इत्याह।
श्रुत्यन्तरनिमित्तत्वात् कर्मणो न निमित्तता ॥१५७|| असंबंधान सामान्य नायुक्तं शब्दकारणात् ।
अतिप्रसंगात् ; श्रुत्यन्तरस्य पाचकादिशब्दादन्यस्य पाक' इत्यादिशब्दस्य निमितत्वात् कर्मणो द्रव्ये पाचकशब्दवृत्तौ नास्ति निमित्तता परंपरयापि। तथाऽनित्यत्वात् स्थित्यभावाच्च कर्मणस्तस्मिन्निवृत्ते पाचकादिप्रतिपत्ति न स्यात्। अपचत्यपि तद्वयपदेशो दृश्यते । नित्यत्वात् कर्मसामान्यं पाचकव्यपदेशे हेतुश्चेदाह (1) असम्बन्धात् । द्रव्येण कर्मसामान्यस्य न सम्बन्धः साक्षात् तत्रासमवायात् । नापि परंपरया कर्मणा तत्समवेतस्य नष्टत्वात् ० समवायिना सामान्येन सम्बन्धाभावात्। न११ सामान्यं शब्दस्य पाचकादे: कारणानायुक्तं किंत्वयुक्तमेवातिप्रसङ्गात्। कर्म त्वस्य सम्बन्धव्यतिरेकेण व्यपदेशहेतुत्वे सर्वत्र तथात्वप्रसङ्गः (१५७)॥
अपचाप पुरुषेऽतीतानागतं कर्म तद्व्यपदेशनिमित्तमिति चेत्। आह (1)
१ भिन्नमभिन्नप्रत्ययहेतुर्न भवतीत्येकं सामान्यमिष्टं तद् यदि भिन्नमपि कर्माभिन्नं प्रत्ययं जनयेत् व्यक्तिभिः कोपराधः कृतः।
२ कर्मणः पाकक्रियासमवेतं। द्रव्यादर्थान्तरभूते। ४ पाचकशब्दादिना द्रव्यस्यैव परिच्छेदः। ५ पाकः पाक इति हि ततः कर्मजातेः स्यान्न पाचक इति ।
पचत एव कर्मास्ति न सर्वदा कर्म। कर्मणि 'कर्मनिमित्तत्वे सति पाचक इति नोच्येत उच्यते च तन्न वस्तुभूतक्रियानिमित्तको व्यपदेशः।
'नष्टे कर्मणि सामान्यं न कर्मणि न कर्तरीति सम्बद्धसम्बन्धोपि नेत्यसम्बन्धान शब्दज्ञानहेतुः। १० कर्मणः।
११ असम्बद्धमपि हेतुरित्याह। "गोत्वमप्यश्वज्ञानहेतुः स्यात्।