________________
___सामान्यचिन्ता व्यक्तीयवैकत्र व्यक्ताऽथ सर्वगा जातिरिष्यते ॥१५४॥ .
सर्वत्र दृश्येताभेदात् सापि न व्यक्त्यक्षिणी। . अथ' सर्वत्रगा जातिरिष्यते तदकत्रव देशे व्यक्त्या व्यक्ता सा जातिः सर्वत्र देशे दृश्यताभेदात्। एकव्यक्तिव्यक्तं रूपं सर्वत्र विद्यमानमभिन्नमित्युपलब्धिप्रसङ्गः। व्यङग्यव्यञ्जकभावश्चायुक्त इत्युक्तं (1) भवतु वा तथापि न सा जातिय॑क्त्यक्षिणी।
तथा हि। ... व्यञ्जकस्याप्रतीतौ न व्यङ्गय सम्यक् प्रतीयते ॥१५५॥
विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः। व्यञ्जकस्य प्रदीपादेरप्रतीतौ न व्यङग्यं घटादिः संप्रतीयत इति तावत् स्थितं। सामान्यतद्वतोः पुनः कस्माद् विपर्यय इष्टः। यदि व्यक्ति: सामान्यस्य व्यञिका तदा व्यक्तेप्रेहे सामान्यं न गृह्येत। इह तु सामान्यस्य व्यङग्यस्य प्राग् ग्रहणं (1) ततस्तद्विशिष्टत्वेन व्यक्तिर्गह्मत इतिः किमिष्यते। व्यञ्जकाग्रहे व्यङग्याग्रह्णात्। किञ्च (1)
पाचकादिष्वभिन्न विनाप्यर्थेन वाचकः ॥१५६।। यदि सामान्यमेवाभिन्नाभिधानहेतुर्न व्यक्तयः तदा पाचकादिवभिन्नेनार्येन पाचकत्वादि सामान्येन विनव' त्वन्मतेपि पाचकादिशब्दः कथं वाचकः। प्रत्ययश्चानुयायी। कर्म पचनादि तद्धेतुरिति चेत् । आह।
भेदान हेतुः कर्मास्य न जातिः कर्मसंश्रयात् ।
* स्वाश्रयेन्द्रियसंयोगात् पनत्वात्तच्छ्न्येन दृश्यते जातिरिति समाधातुरपि । २ व्यक्तिशून्येपि नो चेत् स्वभावनानात्वाप्रसङ्गः।
वृत्तिरायतेत्यादिना। । नागृहीतविशेषणा विशेष्ये बुद्धिरिति सामान्यग्रहद्वारा व्यक्तिग्रह इष्टः (1) च न्यायविपरीतः। "पाचकादिरन्यत्रापीत्यनुवृत्तप्रत्ययः।
अध्ययनादि। • व्यक्तिभ्य एव. प्रत्ययोस्तु किं कर्मादिना।