________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
न
एकव्यक्तिस्थितं सामान्यं व्यक्त्यन्तरमुत्पद्यमानं निष्क्रियत्वान्न याति । " तत्र व्यक्त्युत्पत्तिदेशे प्रागासीत् । व्यक्तिमात्रनिष्ठत्वात् । अस्ति च पश्चादुत्पत्तेः सामान्यं सामान्य शून्याया व्यक्तेः स्थित्यनुपगमान चांशवत् ( 1 ) न हि सामान्यं सावयवं येन क्वचिदेकेनावयवेन समवेतं सद् अवयवान्तरैरुत्पद्यमानव्यक्तिभिः सम्बध्यते । न च पूर्वोत्पन्नमाधारं जहाति (1) उत्पित्सुव्यक्त्यन्तरेण सम्बन्धार्थंमन्यत्र स्थितस्यापरसम्बन्धस्तद्देशागमनं किल न युज्यत इत्यहो व्यसनसन्ततिः स्वाश्रयगतसामान्यवादिनां ।
३४०
किञ्च (1)
१ अन्यत्र वर्त्तमानस्य ततोन्यस्थानजन्मनि ॥ १५२॥ स्वस्थानादचलतोन्यत्र वृत्तिरयुक्तिमत् ।
अन्यत्र पूर्व्वस्थितायां व्यक्तौ वर्त्तमानस्य सामान्यस्य स्वस्मात् स्थानादाश्रयादचलतः ततः पूर्व्वव्यक्तेरन्यत्र स्थाने जन्म यस्य तत्र द्रव्ये वृत्तिरित्ययुक्तिमत् । न हि व्यक्त्यन्तरस्थितस्य व्यक्त्यन्तरमनागच्छतस्तेन सहानुत्पद्यमानस्य . च तत्सम्बन्धो युक्तः ।
तथा " ( 1 )
२ यत्रासौ वर्त्तते भावस्त ेन संबध्यतेपि न || १५३ ॥ तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ।
यत्र देशेऽसौ शावलेयादिर्भावो वर्त्तते तेन देशेन सामान्यं न सम्बध्यते स्वव्यक्तिनिष्ठत्वात् तस्य । तद्देशिनं सामान्यसम्बन्धरहितो देशो यस्य तं विशेषञ्च 67b व्याप्नोतीति किमपि महाद्भुतमेतत् दुर्बुद्धिविलपितेषु ॥
१ न प्रतिबिम्बवदवस्तुत्वात् “विरुद्धपरिमाणेषु वज्यादर्शतलादिषु ।
पर्वतादिस्वभावानां भावानां नास्ति सम्भवो" यतः ।
२ यैः प्रकारैर्व्यक्त्यन्तरे सम्भवस्तेनेष्यन्ते सामान्यञ्चात्रेति व्याघातः ( 1 ) व्यक्तिसमवेतभानमनुत्पादेपीति किमुत्पादेनेति चेन्न । प्रतिभासोऽलीक: सामान्याभावेपीति न तन्मात्रात् सत्त्यत्वमिति नेष्टसिद्धिः ।
३ न व्यक्तिसहोत्पन्नं नित्यत्वात् । न व्यक्त्युत्पाद एव तदुत्पादाभेदात् । ४ अनंशम्वा
* पूर्व्वव्यक्तिदेशादविचलदपि ततोन्यदेशद्रव्यं व्याप्नोतीत्यत्राह । पश्चाद्भावी ।