________________
सामान्यचिन्ता
३३९
व्यञ्जकस्य' विशेषस्य जातीनां जातिमत्ता यदीव्यते (1) तदा गोत्वादिना सामान्येन प्रदीपादि स्तस्य प्रकाशकः तद्वान् सामान्यवान् प्राप्तः व्यञ्जकलक्षणत्वात् तद्वतः। तस्मान्न वृत्तिरभिव्यक्तिरपि तत्कथमेकवृत्तेरनेकोप्येकशब्दवान् स्यात् ॥
किञ्च (1) ̈
व्यक्तेरन्याथवानन्या येषां जातिस्तु विद्यते || १४९ ॥ तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः ।
व्यक्तेरन्याऽथवाऽनन्या अव्यतिरिक्ता येषां वै शेषिक सांख्या दीनां जातिव्विद्यते" एवेति मतं (i) तेषां मते व्यक्तिष्वपूर्व्वासु कथं सामान्यबुद्धयः स्युः । तथा हि (1)
एकत्र तत्सतोन्यत्र दर्शनासम्भवात् सतः || १५० ॥ 'अनन्यत्वेऽन्वयाभावादन्यत्वेप्यनपाश्रयात् ।
अनन्यत्वे एकत्र व्यक्तौ तदात्मनः सतः सामान्यस्यान्यत्र व्यक्त्यन्तरेऽन्वयाभावात् दर्शनासम्भवात् । कथं सामान्यबुद्धिः । अन्यत्वेपि जातेरनपाभयादुक्त''श्रयत्वाभावात् न व्यक्तिष्वपूर्व्वासु तन्निबन्धना श्रीः स्यात् ।
अपि च सामान्यं स्वाश्रयगतं वा कल्प्यते सर्व्वगतं वा आकाशादिवत् । तत्र प्रथमपक्षं दूषयितुमाह (1)
१ . न याति न च तत्रासीदस्ति पश्चान चांशवत् ॥ १५१ ॥ जहाति पूर्व्व नाधारमहो व्यसनसन्ततिः ।
'व्यञ्जिकात्वेपि व्यक्तेर्जातिमत्वमयुक्तमतिप्रसङ्गावित्याह । * आविनेन्द्रियमनस्कारादि । ५ शावलेयादिवत् ।
8
'यद्वा सर्व्वगतत्वेपि व्यक्तिः सत्तानुरोषतः । व्यक्तिशून्येऽदर्शनं व्यञ्जकाभावात् अत एव । वस्तुसतीत्यर्थः । ' आधाराधयेत्वनिषेधात् । • “केनचिच्चात्मनैकत्वं नानात्वञ्चास्य केनचिदिति ( श्लोकवा० ५६० ) भिन्नाभिन्नपक्षोप्ययुक्त इत्याह । यद्वस्तुत्वे सत्यतद्रूपं तस्य ततोन्यत्वमेव । यथा सुखाद् दुःखस्य । वस्तुत्वे सत्याशक्तिरूपञ्चेष्यते सामान्यमित्येतद्रूपत्वेनान्यत्वे व्यवहारस्य साध्यत्वात् स्वभावहेतुः ॥ तच्चेत् सामान्यस्य रूपमनन्यत्तदेव तद् भवति । अतत्वेऽन्यत्वात् । अनन्यत्वेन्वयाभावस्यैव दोषः ।
• "पिण्डेष्वेव च सामान्यं नान्तरा गृह्यते यत" इति (कुमारिल) भट्टः ( श्लोकवार्तिके ५५१) ।