________________
672
प्र० वा० वृत्ती (३ परिच्छेदः) विज्ञानात्पत्तियोग्यत्वायात्मम्यन्यानुरोधि यत् ॥ १४५॥ तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् । प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते || १४६ ||
TA
यत् स्वरूपेण स्थितमेव ( सामान्यं) स्वविषयविज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि परापेक्षं तद् व्यङग्यमुच्यते । यच्च योग्यतायाः स्वरूपभूतायाः कारकं' तत् कारणं मतं । व्यतिरिक्तयोग्यताकरणे तु न स्यात् सामान्य स्योपलब्धिः। उपलम्भायोग्यस्वभावत्वात् । योग्यतासम्बन्धेप्यनुपलभ्यस्वभावानपायात् तदवस्थोऽनुपलम्भः । अथ व्यञ्जकाभिमतैव्विशेषैर्न योग्यता क्रियते तदा सा प्रागेवास्तीति स्यात् । तथा च प्रागेवास्य योग्यत्वे तदपेक्षा व्यञ्जकापेंक्षा न युज्यते ( । १४५, १४६)
सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः ।
त्याह ।
तस्मात् सामान्यवतो विशेषस्य सकाशात् सामान्यस्याविकार्यस्य व्यक्तिसम्भवति ।
न सामान्यस्य संस्काराद् व्यक्तिर्व्यञ्जिका किन्त्विन्द्रियस्याञ्जनवदि
जनादेखि व्यक्तेः संस्कारोऽक्षस्य न भवेत् ॥ १४७॥ तत्प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः ।
अञ्जनादेरिवेन्द्रियस्य न संस्कारो व्यक्तेः सकाशात् । तत्प्रतिपत्तेस्तस्या व्यक्तेर्भावाभावकालयोरभिन्नत्वात् । न हि यथे ' न्द्रियस्याञ्जनसंस्कारभावाभावयोरर्थप्रतिपत्तेः स्पष्टास्पष्टलक्षणो विशेषः तथा व्यक्तिभावाभावकालयोः सामान्यप्रतीतेः सर्व्वदा तुल्याकारत्वात् तस्याः ॥
किञ्च ।
व्यञ्जकस्य च जातीनां जातिमन्ता यदीष्यते ॥१४८॥ प्राप्तो गोत्वादिना तद्वान् प्रदीपादिप्रकाशकः ।
" दीपादि । पूर्वमयोग्यस्य योग्यत्वेनोत्पावनात् ।
व्यञ्जकातु कारकस्य विशेषो जननमात्रं न ज्ञानजननयोग्यता धूमेनाजनकेनापि न व्यभिचारोत्र वह्निर्जनको धूमजत्याज्ज्ञानस्यान्यथाग्निस्वलक्षणाकारत्वं " स्यात् ।
ज्ञानस्य व्यक्त्यसत्वेप्यभेदात् स्पष्टत्वेन ।
B व्यञ्जिकायाः !