________________
सामान्यचिन्ता
शयस्या'विशिष्टरूपस्य केनचिदनुपकार्यत्वात् नापाटः कश्चित् न ह्यनुपकारक आधारोऽतिप्रसङ्गात् ।
ननु वदरस्यानुपकारकमपि कुण्डमाघार इत्याह । प्रविसर्पतः ॥१४३॥
शक्तिस्तद्देशजननं कुण्डादेब दरादिषु । न संभवति साप्यत्र तदभावेप्यवस्थितेः ॥ १४४ ॥
३३०
बदरादिषु गुरुतया प्रविसर्पतो विसर्पणात् । प्रतिक्षणमसमान देशोत्पत्तेः कुण्डादे: सहकारिणः तद्देशजननं बदरोपादानदेशजननं शक्तिः कारणत्वमाधारता (1) सापि शक्तिलक्षणाधारतांत्र सामान्ये न संभवति जन्यत्वाभावात् + सामान्यस्य स्थिति कुर्व्वन् विशेष आधारः स्यादित्याह । तस्य विशेषस्याभावयवस्थिते: ( । १४३, १४४)
न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने ।
न स्थितिव्विशेषात् सामान्यस्य स्वरूपातिरिक्ताया स्थितेनिष्क्रियत्वेनाभावात् स्वरूपस्थितिः । तच्च प्रत्येकं व्यक्त्यपायेप्यस्तीति नासौ ततः । अस्तु वा स्थितिः साप्ययुक्तैव भेदाभेदविवेचने क्रियमाणे । तथा ह्याश्रयहेतुका स्थितिः सामात्याभिन्नाभिन्ना वा स्यात् । भिन्ना चेत् तस्याः कारणत्वादाश्रयः स्यात् । न तु सामान्यस्य स्थितिरसम्बन्धात् । सामान्यस्यापि चेद् भेदे सति कोऽनयोः सम्बन्धः । न कार्यकारणभावः स्थितेराश्रयादुत्पत्तेः । सामान्यादुत्पत्तौ वा न व्यक्तिराधारः स्यात्. (1) स्थितिहेतुत्वाभावात् । सामान्यञ्च नित्यत्वादकार्यमेव । न चान्यः सम्बन्धोस्ति निराकरणात् ।
t
एवं गमनप्रतिबन्धादिष्वपि वाच्यं । तदेवं न तावदाधेयता वृत्तिः । व्यक्तिरपि न युक्ता (1)
१
'इह गोत्वमिति समवायश्चेन्न स समवेतस्य क्वचित् स्यात् तच्च तदायत्तत्वे तदुत्पत्त्यान्यस्य ।
* पूर्व्वत्रानेकान्तमाह परः ।
३
कुण्डात् तुल्यदेशे ।
8
'कुण्डबवरक्षणाद् बिशिष्टदेशजत्वेनैकसामग्रघधीनत्वमुक्तं ।
" अभेदपक्षे स्थितिक्रिया सामान्यक्रियैव सा चायुक्ता । " व्यक्तिसामान्ययो (:) स्थितेरन्यः ।
४३