________________
३३६
प्र० वा वृत्ता ( परिच्छेदः) अर्यामेदेन च विना शब्दाभेदो न युज्यते ॥१३९॥ मर्षस्याभेवेन च विना शब्दस्याभेदो न युज्यतेऽतिप्रसङ्गात्। (१३९) एक्न्तककार्यतैव भिन्नशब्दवाच्या स्यादित्याह। तस्मात् तत्कार्यतापोष्टाऽतत्कार्यादेव भिन्नता।
यस्मादाभेदाच्छब्दाभेदः कार्यञ्च प्रतिव्यक्ति भिन्नमिति तत्कार्यताप्येककार्योच्यते। साप्यतत्कार्याद भिन्न तैव स चापोहः।
अतत्कार्यव्यावृत्तौ संकेतक्रियां द्रढयितुं दृष्टान्तमाह । '... चक्षुरादावनेत्र रूपविज्ञानके क्वचित् ।।१४०॥
भविशेषेण तत्कार्यचोदनासंभवे सति । सकृत् सर्वप्रतीत्यर्थ कश्चित् साङ्केतिकी श्रुतिम् ॥१४॥ कुहिवेपि तद्रूपसामान्याद् व्यतिरेकिणः ।
यथा चक्षुरादावनेकत्र क्वचिद् रूपविज्ञानफले विषयभूतेऽविशेषेण सामान्येन' तस्य चक्षुरादिकार्यस्य कारणवाचकैकशब्दद्वारेग चोबनायाः परेभ्यः प्रकाशनायाश्चक्षुरालोकादिष्वेकसामान्यभावेपि संभवे सति कश्चित् सन्धेयव्यवहाररुचिः सकृत् सर्वस्य चक्षुरादेः प्रतीत्यर्थ सांकेतिकी श्रुति कुर्यात् (1) कुतो रूपं विज्ञानमिति र विनापि तद्रूपाद् रूपविज्ञानजनकात् सामान्याच्चक्षुरादिव्यतिरेकिणः।
एकवृत्तेरनेकोपि यद्यकश्रुतिमान् भवेत् ॥१४२॥ वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते । नित्यस्यानुपकार्यत्वात् नाधारः;
अथैकस्य सामान्यस्य वृत्तेरनेकोपि विषयो योकश्रुतिमान् भवेत् तदा को दोषः। ननु केयम्वृत्तिरिष्टा (1) किमाधेयता उत व्यक्तिरभिव्यक्तिः । इत्येतद् द्वयमपि तस्मिन् सामान्ये न युज्यते। कथमित्याह। नित्यस्यानाधेयाति
न तु तत्कार्यता नाम सामान्यमस्ति। 'असाधारणकारणचोदने तु चक्षुरादीनां नकाश्रुतिः।
व्यवहारलाघवाथ। अविशेषेण सामग्रीप्रश्ने । • परो रूपविज्ञानहेतुः सरो वेति। "एककार्यत्वेनकः शब्दो बहुषु सामान्येन वेत्यविशेषं मन्यते परः । उपलभ्यत्वेऽनुपलब्धिरनुपलभ्यत्वे च बहुवेकशब्दः तुल्यज्ञानञ्च मेत्युक्तं ।