________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् । तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः ॥१३३॥ शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् ।
३३४
बुद्धावभासमानस्य दृश्यस्य सम्मतस्य तस्य स्वभावानुपलब्धेरभावनिश्चयात् । न वस्तुनि सत्वमिति कथं तत्प्रतिपादिकायाः श्रुतेर्व्वस्तुनि वृत्तिः । तेन' व्यवच्छेदस्य वस्तुनि सत्वेन सामान्य ' गोचराश्शब्दाः" बुद्धयश्च कल्पिका अन्यापोहविषया आचार्येण प्रोक्ता ( : ) । अपोहः शब्दलिङ्गाभ्यां प्रतिपाद्यत इति ब्रुवता । न तु भूतसामान्यविषया । वस्तुन्येषां नीलत्वादीनामनुपलब्धिबाधितत्वेनासम्भवात् ।
• एकवा वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥१३४॥ अन्वयव्यतिरेको वा नैकस्यैकार्थगोचरौ ।
यदि वाच्यं तदेकत्वाद् वस्तुरूपस्य । तस्मिन् भिन्नरूपा " अनित्यकृतकत्वाद्या मतिः कुतः । एकत्वाद् विषयस्यैकरूपवद् बुद्धिर्युक्ता विशेषश्च सर्वतो व्यावृत्त इति तदात्मभूतं सामान्यमपि तथा स्यात् । ततश्चैकस्य सामान्यस्यान्वयव्यत्ति - कानुवृत्त्यननुवृत्ती एकार्थगोचरौ व्यक्त्यन्तरविषयो न सम्भवतः । तथा हि सामान्यं, व्यक्त्यन्तरानुयायि न व्यक्तिरिति वदता व्यक्त्यभिन्नात्मनः सामान्यस्यान्वयरेको विरुद्धावभ्युगतौ स्यातां । तच्चायुक्तं ।
अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ १३५॥
'अथवा व्यक्त्यात्मनो व्यक्तिरूपवद् भेदे च सामान्यस्याभेव व्यवहारा अनिबन्धनाः स्युरेकस्यानुयायिनोऽभावात् ।
अस्मन्मते तु (1)
सर्वत्र भावाद् व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः ।
यतो वस्तुनि शब्दार्थे दोषः ।
विकल्पिका इत्यर्थः ।
अम्योपोद्यतेऽनेनेति विकल्पाकारोपोहः ।
" तच्छब्दवाच्यं सामान्यं स्वलक्षणाद् भिन्नमभिन्नं वाऽतः प्राह । वैशेषिकसाख्यादेः ।
५ स्वसामान्याकारा ।
"अखण्डं यदि शब्दवाच्यं । ● भेदपले दोषमाह ॥ सामान्याधिकरण्यादयः ।