________________
सामान्यचिन्ता
३३३
लिङ्ग वा व्याप्रियते । तत्र ध्वनौ लिङ्ग वा विधि सर्व्वतो व्यावृत्तं न किञ्चन वाच्यमस्ति एका व्यावृत्तिः शब्देन लिङ्गेन वा प्रतिपाद्यते न वस्त्वित्यर्थः । यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥१२९॥ भवेन्नानाफलः शब्द एकाधारो भवत्यतः ।
यस्य वस्तुनोऽभिधानतो वस्तुसामर्थ्यादखिले कृतकानित्यादिवस्तुरूपें गतिर्भवेत् । येन शब्दप्रमाणान्तरवैयर्थ्यं स्यात् । अतः शब्दो भूयान्नानाफलोऽनेकधर्मप्रतीतिफल एकाधार एकधर्मिनिष्टो भवति ।
• साध्यसाधनभावादिमाख्याय सामानाधिकरण्यन्दर्शयितुमाह । ' विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्त्तते ॥१३०॥ यदान्यत्; तेन स व्याप्त एकत्वेन च भासते ।
विच्छेदमनीलादिव्यवच्छेदमेकैकं नीलादिशब्दः सूचयन् यदाऽप्रतिक्षिप्यान्यवपलव्यवच्छेदादौ वर्त्तते (1) तद्वाचक शब्दप्रयोगे सति तेन व्याप्तः शिष्ट एकत्वेन च भासते ।
सामानाधिकरण्यं स्यात् तदा बुद्धयनुरोधतः ॥ १३१ ॥
तदा सामानाधिकरण्यं स्यान्नीलोत्पलमित्युभयव्यावृत्तिविशिष्टैकवस्तुव्यदसायिकाया बुद्धेरनुरोषतः ॥ ( १३१ )
किञ्च ।
वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
स्यात् सत्यं सति तत्त्वे हि नैकवस्त्वभिघायिनि ॥१३२॥
ध्वनेविच्छेदकरणे व्यावृत्ति प्रतिपादकत्वेऽवस्थिते वस्तुधर्मस्य नीलादेः संस्पर्शः प्रवृत्तिविषयत्वं स्यात् । स विच्छेदो हि यस्मात् तत्र वस्तुनि सत्यं सन् तस्मात् सूचने तद्वती प्रवृत्तिर्युक्ता । एकं सामान्यं वस्तु तदभिधायिनि तु ध्वनी न वस्तुसंस्पर्शः॥ (१३२)
हेतुमाह (1)
'स्वार्थाभिधाद्वारा रोपखण्डेन शब्दप्रमान्तरसाफल्यमित्यर्थः ।
२ यदि वस्त्वेव शब्दादेविषयस्तदा सर्वाकारप्रतीतिप्रसंगोऽसमानाधिकरण्यादयश्चेत्यन्यापोहे विषयत्वमाह ।
* अनुत्पलप्रयोगेऽनेन व्याप्तो नीलशब्दः ।
" स्वार्थाभिधानद्वारेण ।