________________
३३२
प्र० का वृत्तौ (१ परिच्छेदः) - व्यावृत्तिवस्तु भवति भेदोस्यास्मादितीरणात् ।
न हि वस्तुनो व्यावृत्तिर्वस्तु भवितुमर्हति । अस्मादेव वृक्षादस्य वृक्षस्य भेव इतीरणाद् विकल्पनात् भेदस्य वस्तुत्वे भिद्यमाना शिंशपैव वा भेदः स्याद् वस्त्वन्तरं वा। न तावच्छिंशपा धवादेरवृक्षाद् भेदाभावप्रसङ्गात्। न हि शिशपास्वभावलक्षणो भेदो धवादेरस्ति येन तेप्यवृक्षस्य भेदाः स्युः ।। . सर्वत्र एव हि भिद्यमानाभावास्तदात्मन इति चेत्। न तइँको भेदस्तत्कारिणामतत्कारिभ्यो यः शब्दवाच्यः। व्यक्तिस्वभावस्य तु भेदस्य संकेताविषेपत्वा- . दवाच्यतैव। अथ वस्त्वन्तरं भेदस्तदा तस्माद् भेदाख्या(ना)द् वस्त्वन्तराद् भिद्यमानस्य शिशपादेर्भेदो वक्तव्यः अन्यथा वस्त्वन्तरत्वायोगात्। एवञ्चावृक्षव्यावृत्तेद्वर्यावृत्तत्वात् शिंशपादिरवृक्षः कर्कादिवत्। भेदस्य च वृक्षाद् भिन्नत्वं भेदान्तरोपाधिकमेवेति द्रव्यान्तरवर्णभेदः स्यात्। न ह्यन्योन्यस्य भेदः सम्बन्धा
भावेनातिप्रसङ्गात्। सति सम्बन्धे कार्यकारणभाव एवासौ। ततः सव्वं कार्य 66a स्वकारणस्य भेदः (व्यावृत्तिः) स्यात्। तस्माद् योऽयं भेदः शब्दव्यवहारविषयोऽनुयायी स कल्पितोऽपरमार्थः । स्वस्वभावव्यवस्थितास्तु भावाः पारमार्थिको भेदः॥
ननु यदि वस्त्वेकरूपं तदैकेन शब्देन लिङ्गेन वा वस्तुनि प्रतिपादिते॥ शब्दप्रमाणान्तरवृत्तिर्न स्यात् ॥
एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः॥१२८॥
लिङ्ग वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन। - एकस्य नित्यत्वादेरर्थस्य श्लेषः सम्बन्धस्तस्य विच्छेदे व्यावृत्ता वेको ध्वनि
१ अमिना वाऽवृक्षान् वृक्षस्य भिन्ना वा उभयथापि दूषणमाह निवृत्तिररूपत्वेनाबुद्धत्वात् सन्तावृत्तश्च न शब्दविषयत्वमनुभवात्तु वृक्षोयं नावृक्ष इति निश्चय (1) तेनान्यनिवृत्तिः प्रतिषेधविकल्पेन कल्पितावृक्षादौ च वृत्तेः शब्दोन्यनिवृत्तमाक्षिपति। तेनान्यनिवृत्तिविशिष्टत्वमुक्तमाचार्येण।
• भेशिशपयोर्मध्येऽपरः। । अतदो व्यावृत्तिस्तेनैवं न चैवं तभेदाभिमतेपि मा भूत्। ४ पूर्वयुक्त्या न व्यतिरिक्ता व्यावृत्तिापि सामान्यं।"
५ अखण्डे स्वीक्रियमाणे तस्माद् यो येन धर्मेणेत्युक्तेपि प्रागधिकविधानायाह (1)म(आ)कारान्तरसमारोपोत्र (?) श्लेषः (1) स च प्रतिपत्तिभेदेनानेकः ।
बक्षिप्रतिभासिनि धर्मिणि बाह्माभिवतयाध्यस्ते शब्दस्य (?मा)त्रेण वृत्तेरिति ताभित्रायः।