________________
सामान्यचिन्ता
स चायमन्यव्यवच्छेदः प्रोक्त आचार्येण अन्यच्या त्याऽन्यव्यावृत्तत्वेन गम्यते तस्य वस्तुनः ॥ १२४)
३३१
कश्चिद् भाग इति प्रोक्को रूपं नास्यापि किञ्चन ।
कश्चिद् भागो धर्म इत्यर्थवाचकेन * शब्दोऽर्थान्तरनिवृत्तिविशिष्टामेव भावानाहेत्यादिना " ग्रन्थेन । न त्वन्यव्यावृत्तिर्नाम काचिदन्या । तद्विशिष्टव वस्तु वाच्यमिति किन्त्वाक्षिप्तव्यावृत्तिको धर्म एव कश्चित् कल्पितभेदेा बहिरध्यवसायविषयः शब्दवाच्यः । वस्तुतो रूपं नास्यापि किञ्चनास्ति ।
तद्गतावेव शब्देभ्यो गम्यतेन्यनिवर्त्तनम् ||१२५||
शब्देभ्यस्तस्य धर्मस्य नीलादेर्गतावेव गम्यते अन्यस्य निवर्त्तनमसंकरप्रतीतिसामर्थ्यात् । (१२५)
न तत्र गम्यते कश्चित् केनचिद् भेदवान् परः ।
न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥ १२६॥
न तत्र शाब्द्यां बुद्धौ कश्चिन्नीला दिः केनचिद् व्यावृत्त्यादिना विशिष्टः परो गम्यते । न चापि शब्दो द्वयस्य व्यावृत्तिवचनस्य तद्विशिष्टवचनस्य मुख्यतः कृत् कर्त्ताऽसंकीर्णधर्मं वदन् सामर्थ्याद् व्यावृत्तिञ्चाह । तदेवाह (1) अन्योन्याभाव इति (1) यस्मात् परस्पराभावरूपः सर्व्वे धर्मस्तस्मात् तद्वचने व्यावृत्तिरपि सामर्थ्यादुक्ता । (१२६ )
अरूपो रूपवत्वेन दर्शनं बुद्धिविसवः । daiरमार्थोसावन्यथा न हि वस्तुनः ॥१२७॥
यश्चायं भेदोसावरूपौ रूपवत्वेन यत् तद्दर्शन मस्य स बुद्धिविप्लवः । तेनैव बुद्धिविप्लवेनापरमापरमार्थोऽसत्योसौ भेदः । अन्यथा परमार्थत्वे व्यावृत्तिर्व्वस्तुनो न वस्तु स्यात् । (१२७ )
तच्चायुक्तं ।
' प्रोक्तो निद्दिष्टो गम्यत इति सम्बन्धः ।
२ यदि भेवस्य नीरूपत्वं कथं तर्हि निवृत्तिविशिष्टं वाच्यमित्याह तद्गतेति । अन्यतो भेदस्यानुयायिनः शब्दवाच्यत्वे सामान्यं तदेव स्यादित्याह असाविति शब्दविशेषयोर्भेदः । ४ नन्वेकः शब्दो विधिप्रतिषेधकृत् कथमित्याह । " एतावन्मात्रेण व्यावृत्तिविशिष्टत्वं न दण्डवत् ६ वृश्यविकल्पैक्येन वक्तृश्रोत्रोः ।