________________
प्र० वा० वृत्तौ (३ परिच्छेदः)
तं. भेदं तस्या उक्तेरुच्चारिताया वाच्यतया प्रतियती धीव्विकल्पिका प्रकृतिभ्रान्त्या एकमिव वस्त्वीक्षते । तस्मात् कुतश्चनाकार्यकारिणो ऽर्थाद्. विनिवर्त्य 95b क्वचिदेकार्थक्रियाकारिण्यर्थे बुद्धे निवेशनाय शब्दः प्रयुज्यते ( 1 ) तदर्थस्य शब्दार्थस्यावधारणात् । घटेनोदकमानयेत्यादौ प्रतिपदमवधारणमिष्टं । व्यर्थोऽन्यथा प्रयोगः स्यात् । यदि येन केन चिदानयनमिष्टमुदकमानयेत्युच्येत । यदि शब्दानां व्यवच्छेदो वाच्यस्तदा ज्ञेयादिपदानां सर्व्वस्य ज्ञेयत्वेन व्यवच्छेद्या भावात् । ( १२१, १२२ )
अर्थो न स्यादित्याह
३३०
तज्ज्ञेयादिपदेष्वपि ॥१२२॥ व्यवहारोपनीतेषु व्यवच्छेद्योस्ति कश्चन ।
यस्माद् व्यवच्छेदमन्तरेण न शब्दप्रयोगः तत् तस्माज्ज्ञेया दिपदेष्वपि कुतश्चित् प्रकरणात् व्यवहारोपनीतेषु विशेषविषयेषु कश्चन तदितरोस्ति कल्पितो वा । "
निवेशनं च यो यस्माद् भिद्यते तन्निवर्तनात् ॥ १२३॥ तद्भेदे भिद्यमानानां समानाकार भासिनि ।
यो यस्मादतत्कारिणो भिद्यते (1) तमतत्कारिणम्विनिवर्त्य भिद्यमानानां
- तद्भवेऽतत्कारिभेदे समानाकार' भासिनि निवेशनञ्च शब्दानां " ॥
स चायमन्यव्यावृत्या गम्यते तस्य वस्तुनः ॥ १२४॥
१ शेयादिदोष व्यतिरेक उक्तो राद्धान्तः ।
* अन्यापोहे शब्दार्थे परोऽव्यापित्वमाह । अज्ञेयाद् विज्ञेयस्य भेदेन विषयी - करणं वाच्यं ततोऽज्ञेयोपि ज्ञेयः स्यादविषयीकृताद् व्यवच्छेदाशक्तेः । एकाद्यसर्व-. चेन्न व्यतिरिक्तसमुदायास्वीकृतेरनर्थकता स्यात् । यत्परः शब्द स शब्दार्थ इि faurante sureछेदोप्यर्थ इत्यर्थः ।
अन्यथा यदि शब्देन कश्चिदर्थो न व्यवच्छिद्यते व्यर्थः शब्दप्रयोगः स्यायुक्तयुक्त्या ।
" ज्ञेयाः सर्व्वपदार्थाः सर्वज्ञज्ञानस्येत्यत्रापि यदज्ञेयत्वमाशङ्कितन्तद्वद्यवच्छेद्यं । * विषिप्रतिषेषप्रयोगस्थेषु ।
यदि विधिशब्दार्थोर्थावन्यनिषेधस्तर्हि नागोक्तविरुद्धमित्यत आह वृक्षस्यायं -भेदो न स्याद् घटवत् ।
• विकल्पेनैकत्वेनारोप्य सर्व्वत्र ।
B
" सङ्केतेपि विधिरुक्तोऽनेन ।