________________
३२८
प्र० वा० वृत्तौ (३ परिच्छेदः) प्राप्तः। निश्चिते हि वृक्षे तदभावः शक्यो निश्चेतुं। अवृक्षत्वे च निश्चिते वृक्षो निश्चेय इत्येकानिश्चयाद् द्वयानिश्चयः ॥ (११३)
सकेतासम्भवस्तस्मादिति केचित् प्रचक्षते।
तेषामवृक्षास्सङ्केते व्यवच्छिन्ना न वा; सेडुतासम्भवस्तस्मादिति केचि ज्ज मिनी याः प्रचक्षते। तेषामेव वादिनां जातावपि सङकेते क्रियमाणेऽवृक्षा व्यवच्छिन्ना न वा।
यदि ॥११४॥ . . व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणाहते ।
अनिराकरणे तेषां सङक्रेते व्यवहारिणाम् ॥११५।। यदि व्यवच्छिन्ना इष्यन्ते कथं संकेतात् प्राक् ज्ञाता वृक्षग्रहणादृते संकेताद् वृक्षस्याज्ञातत्वाद् अवृक्षाः कथं ज्ञाताः। अथ न व्यवच्छिन्नाः तदाऽनिराकरणे तेषां संकेते व्यवहारिणां व्यवहारकाले २ ॥ (११५)
न स्यात् तत्परिहारेण प्रवृत्तिव॒क्षभेदवत् । अविधाय निषिध्यान्यत् प्रदश्र्यैकं पुरः स्थितम् ॥११६॥ वृक्षोयमिति संकेतः क्रियते तत् प्रपद्यते ।
ब्यवहारेपि तेनायमदोष इति चेत् ; तेषामवृक्षाणां परिहारेण न स्यात् प्रवृत्तिः वृक्षभेदवद् (1) यथा वृक्षविशेषाणां वृक्षसंकेतेऽव्यवच्छिन्नत्वात् प्रवृत्तिविषयत्वमेवमवृक्षाणामपि स्यात् । नन्वे के शाखादिमन्तं पुर (:) स्थितं प्रदर्श्य तस्मादन्यदविधाय निषिध्य च । (११६) वृक्षोयमिति च संकेतः क्रियते वस्तुसामान्यादिभिः तत् संकेतविषयं सामान्य तत्सम्बन्धिबाह्यलक्षणं व्यवहारे प्रपद्यते तेनायमनन्तरोक्तदोषो न भवतीति चेत् ॥
तरुः॥११॥ अयमप्ययमेवेति प्रसङ्गो न निवर्त्तते । एकप्रत्यवमर्शाख्ये ज्ञाने;
'तुल्यदोषतामाह। २ न हि संकेते पराव्यवच्छेदेन निवेशिच्छब्दाद् व्यवहारे तत्परिहारेण प्रवृत्तिः। । वस्तुसामान्यवादी प्राह। ४ सामान्ये कृतो व्यक्तिषु व्यापकः स्यात् ।