________________
सामान्यचिन्ता
३२७ संकेतश्चातत्कारिविवेकेन प्रवृत्त्यर्थतया प्रवृत्तिप्रयोजनत्वेन कृतः। ततश्च श्रुतिरपि धियं जनयन्त्यर्थेन विसंवादिकेति सम्बन्धनीयं । कीदृशीं धियं (1) स्वाकारेऽकार्यकृति । कार्यकारणासमर्थे तत्कारि तुल्यरूपावभासिनीमेकार्थक्रियाकारि-6sa सर्व्ववस्तुसाधारणैकरूपाध्यवसायिनी॥ (११०)
धियं वस्तुपृथग्भावमात्रबोजामनर्थिकाम् ।
जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः॥१११॥ वस्तु नस्तत्कारिणोऽतत्कारिभ्यश्च पृथग्भाव एव केवलः स बीजं कारणं यस्यास्तामर्थिकामर्थशून्यां' परमार्थतः।
कथमविसम्वादिका तर्हि सेत्याह।
अतत्कारिणां विजातीयानां परिहारस्याङगभावतः कारणत्वात् तद्वयवच्छेदस्य विषयत्वात् तत्र प्रवृत्तिः। (१११) - वस्तुभेदाश्रयाचार्थे न विसंवादिका मता।
ततोन्यापोहविषया तत्काश्रितभावतः ॥११२॥ वस्तुभेदाश्रयाच्च वस्तुविषयस्य परंपरया हेतृत्वात् तत्र प्रवर्तयन्ती श्रुतिरथेन विसंवादिका मता। ततोन्यायोहविषया तत्काश्रितभावतः। तत्कार्यकर्ते वस्त्वाश्रितत्वात् ॥(११२)
अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वंयम् ।
अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः ॥११३॥ ननु संकेतकालेऽवृक्षव्यतिरेकेण वृक्षार्थस्य ग्रहणे बयमन्योन्याश्रयं वृक्षो. ऽवृक्षश्चान्योन्यापेक्ष इत्येकस्य वृक्षस्यावृक्षस्य चाव्यवस्थितत्वाद् ग्रहाभावे वयाग्रहः
१शब्बजनिता धीः स्वाकारं बाह्यमध्यवस्यतीत्यलीकेति न सम्बादः इत्याह । २ एतेन बहिः प्रवृत्यङ्गत्वं श्रुतेः।
३ विषित्वेन वस्त्वष्यवसा(या)त् कथमन्यापोहविषयतेत्याह ततोऽतत्कारिपरिहारे हेतुत्वात्।
४ अन्यव्यावृत्तवस्त्वध्यवसायिबुद्धिजननात् स्वलक्षणे प्रवर्तयति।
५ विधित्वेन वस्त्वध्यवसा(या)त् कथमन्यापोहविषयतेत्याह (1) ततोड़तत्कारिपरिहारहेतुः।
"स्वार्थाभिधानाच्छु तेरपोहे कर्तृत्वं व्यवहारे संकेते वस्तुभेदाश्रयत्वादपोहाश्रितत्व।
• यावद् गां नाबुद्ध ताव गां न बुध्यते इति परः तत्सामन्यमेष्टव्यं।